यतिः

विकिशब्दकोशः तः
Jump to navigation Jump to search

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतिः, पुं, (यतते चेष्टते मोक्षार्थमिति । यत् + “सर्व्वधातुभ्य इन् ।” उणा ० ४ । ११७ । इति इन् ।) निर्ज्जितेन्द्रियग्रामः । तत्पर्य्यायः । यती २ । इत्यमरः । २ । ७ । ४४ ॥ भिक्षुः ३ संन्यासिकः ४ कर्म्मन्दी ५ रक्तवसनः ६ परि- व्राजकः ७ तापसः ८ पराशरी ९ परिकाङ्क्षी १० मस्करी ११ पारिरक्षकः १२ । इति हेम- चन्द्रः ॥ निकारः । विरतिः । इति तत्रैव नानार्थे ॥ * ॥ तस्य वाराणस्यां वासो यथा, -- “अष्टौ मासान् विहारस्य यतीनां संयतात्म- नाम् । एकत्र चतुरो मासानब्दं वा निवसेत् पुनः ॥ अविमुक्ते प्रविष्टानां विहारस्तु न विद्यते । यतिभिर्मोक्षकामैश्च अविमुक्तं निषेव्यते ॥” इति मात्स्ये अविमुक्तमाहात्म्ये १५९ अध्यायः ॥ यतिधर्म्मो यथा, -- “अलावुं दारुपात्रञ्च मृण्मयं वैदलं तथा । एतानि यतिपात्राणि मनुः स्वायद्भुवोऽब्रवीत् ॥ एककालं चरेद्भैक्ष्यं न प्रसज्जत विस्तरे । भक्ष्य प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ विधूमे सन्नमुषले व्यङ्गारे भुक्तवज्जने । वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्बिनिर्गतः ॥ अभिपूजितलाभांस्तु जुगुप्सेतैव सर्व्वशः । अभिपूजितलाभैश्च यतिर्मुक्तोऽपि वध्यते ॥ इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥ अनेन क्रमयोगेन परिव्रजति यो द्विजः । स विधूयेहपाप्मानं परं ब्रह्माधिगच्छति ॥” इति मानवे ६ अध्यायः ॥ (ब्रह्मणः पुत्त्रविशेषः । यथा, श्रीमद्भागवते । ४ । ८ । १ । “सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः । नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्द्ध्वरेतसः ॥” नहुषपुत्त्रः । यथा, महाभारते । १ । ७५ । ३० । “यतिं ययातिं संयातिमायातिमयतिं ध्रुवम् । नहुषो जनयामास षट्सुतान् प्रियवाससि ॥” विश्वामित्रपुत्त्रः । यथा, महाभारते । १३ । ४ । ५७ । “आराणिर्नाचिकश्चैव चाम्पेयोज्जयनौ तथा । नवतन्तुर्वकनखः सयनो यतिरेव च ॥” त्रि । कर्म्मसूपरतोऽयष्टा । यथा, ऋग्वेदे । ८ । ३ । ९ । “येनायतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥” “येन सुवीर्य्येण यतिभ्यः कर्म्मसूपरतेभ्योऽयष्टृभ्यो जनेभ्यः सकाशात् धनमाहृत्य भृगवे महर्षये प्रयच्छसि ।” इति तद्भाष्ये सायणः ॥)

यतिः, स्त्री, (यम्यते रसनात्रेति । यम् + “स्त्रियां क्तिन् ।” ३ । ३ । ९४ । इति क्तिन् । “अनु- दात्तोपदेशवनतितनोत्यादीनामिति ।” । ६ । ४ । ३७ । इति मकारलोपः ।) पाठविच्छेदः । इति मेदिनी । ते, ४६ ॥ जिह्वेष्टविश्रामस्थानम् । यथा, -- “यतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते । सा विच्छेदविरामाद्यैः पदैर्व्वाच्या निजेच्छया ॥ क्वचिच्छन्दस्यास्ते यतिरभिहिता पूर्ब्बकृतिभिः पदान्ते सा शोभां व्रजति पदमध्ये त्यजति च । पुनस्तत्रैवासौ स्वरविहितसन्धिः श्रयति तां यथा कृष्णः पुष्णात्वतुलमहिमा मां करुणया ॥ श्वेतमाण्डव्यमुख्यास्तु नेच्छन्ति मुनयो यतिम् । इत्याह भट्टः स्वग्रन्थे गुरुर्मे पुरुषोत्तमः ॥” इति च्छन्दोमञ्जरी । १ । १६ -- १८ ॥ (नियम्यते इति । यम् + क्तिन् । यतते चेष्टते व्रतादिरक्षार्थं इति वा । यत + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।) विधवा । रागः । सन्धिः । इति शब्दरत्नावली ॥ वाद्याङ्ग- प्रबन्धविशेषः । यथा, -- “यतिरोढाप्यवच्छेदो गजरो रूपकं ध्रुवम् । गनपः सारिगोणी च नादश्च कथितं तथा । प्रहरणं वृन्दनञ्च प्रबन्धा द्बादश स्मृताः ॥” यथा दं थातः । इत्येकताल्यां यतिः । इति सङ्गीतदामोदरः ॥ (सा त्रिविधा । यथा, मार्कण्डेयपुराणे । २३ । ५३ । “चतुर्विधं पदं तालं त्रिःप्रकारं लयत्रयम् । यतित्रयं तथा तोद्यं मया दत्तं चतुर्विधम् ॥”)

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतिः [yatiḥ], f. [यम्-क्तिन्]

Restraint, check control.

Stopping, ceasing, rest.

Guidance.

A pause in music; स्थानत्रयं यतीनां च षडास्यानि रसा नव Pt.5.55.

(In prosody) A cæsura; यतिजिह्वेष्टविश्रामस्थानं कविभि- रुच्यते । सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया ॥ Chand. M.1; म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्; यतिभङ्गप्रवृत्तस्य यतिभङ्गो न दोषभाक् Śaṁkaradigvijaya.

A widow.-तिः m. [यतते मोक्षाय यत्-इन्]

An ascetic, one who has renounced the world and controlled his passions; यथा दानं विना हस्ती तथा ज्ञानं विना यतिः Bv.1.119.

N. of Viṣṇu. -Comp. -चान्द्रायणम् N. of a particular kind of penance; अष्टावष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ Ms.11.218. -पात्रम् an ascetic bowl for collecting alms. -मैथुनम् the unchaste life of ascetics.

"https://sa.wiktionary.org/w/index.php?title=यतिः&oldid=506913" इत्यस्माद् प्रतिप्राप्तम्