सामग्री पर जाएँ

यत्नः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यत्नः, पुं, (यत + “यजयाचयतविच्छप्रच्छरक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।) रूपादि- चतुर्व्विंशतिगुणान्तर्गतगुणविशेषः । स च त्रिविधः । प्रवृत्तिः १ निवृत्तिः २ जीवन- योनिः ३ । यथा, -- “प्रवृत्तिश्च निवृत्तिश्च तथा जीवनयोनयः । एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिकीर्त्तितम् ॥” तेषां कारणं यथा, -- “चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा । उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥ निवृत्तिस्तु भवेद्द्वेषाद्द्विष्टसाधनताधियः । यत्नो जीवनयोनिस्तु सर्व्वदातीन्द्रियो भवेत् । शरीरे प्राणसञ्चारे कारणं तत् प्रकीर्त्तितम् ॥” इति भाषापरिच्छेदः ॥ उद्योगः । यथा, -- “उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- र्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥” इति हितोपदेशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यत्नः [yatnḥ], [यत्-भावे नङ्]

An effort, exertion, attempt, endeavour, trial; यत्ने कृते यदि न सिध्यति को$त्रं दोषः H. Pr. 31; Bh.2.5.

Diligence, assiduity, perseverance.

Care, zeal, watchfulness, vigilance; महान् हि यत्नस्तव देवदारौ R.2.56; प्रतिपात्रमाधीयतां यत्नः Ś.1.

Pains, trouble, labour, difficulty; शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः Ku.1.35;7.66; R.7.14. (यत्नेन ind. with great effort, diligently, carefully. यत्नतः carefully, zealously, sedulously; गुणवदगुणवद् वा कुर्वता कार्यमादौ परि- णतिरवधार्या यत्नतः पण्डितेन Bh.2.99. यत्नात्

with great effort.

diligently, vigorously, zealously.

in spite of every effort.

necessarily.) -Comp. -आक्षेपः (in Rhet.) an objection raised even though there be an attempt to stop it.

"https://sa.wiktionary.org/w/index.php?title=यत्नः&oldid=375481" इत्यस्माद् प्रतिप्राप्तम्