यदुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यदुः, पुं, (यजते इति । यज् + उः । पृषोदरादि- त्वात् जस्थाने दकारः ।) देवयान्यां जातो ययातेर्ज्येष्ठपुत्त्रः । तस्य वंशे पितृशापात् राजा- चक्रवर्त्ती नासीत् । तद्वंशे द्वापरयुगस्यान्ते श्रीकृष्णोऽवतीर्णः । इति श्रीभागवतमतम् ॥ तस्य मातुलकन्याविवाहकारणं यथा, -- “जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह । पुत्त्रं ज्येष्ठं वरिष्ठञ्च यदुमित्यब्रवीद्वचः ॥ त्वं यदो ! प्रतिमद्यस्व पाप्मानं जरया सह । यौवनेन त्वदीयेन चरेयं विषयानहम् ॥ पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् । दत्त्वा संप्रतिपत्स्यामि पाप्मानं जरया सह ॥ यदुरुवाव । सितश्मश्रुधरो दीनो जरया शिथिलीकृतः । बलीसन्ततगात्रश्च दुर्द्धर्षो दुर्ब्बलः कृशः ॥ अशक्तः कार्य्यकरणे पापभूतश्च यौवने । सहोपजीविभिश्चैव तां जरां नैव कामये ॥ सन्ति ते बहवः पुत्त्रा मत्तः प्रियतरा नृप ! । जरां ग्रहीतुं धर्म्मज्ञ ! पुत्त्रमन्यं वृणीष्व वै ॥ ययातिरुवाच । यो मे त्वं हृदयाज्जातो वयः स्वं न प्रयच्छसि । पापान्मातुलसम्बन्धात् प्रजा वै ते भविष्यति ॥” इति मात्स्ये ३१ अध्यायः ॥ * ॥ (हर्य्यश्वराजपुत्त्रः । यथा, हरिवंशे । ९३ । ४४ । “तस्यैवं सुप्रवृत्तस्य पुत्त्रकामस्य धीमतः । मधुमत्यां सुतो जज्ञे यदुर्नाम महायशाः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यदुः [yaduḥ], 1 N. of an ancient king, the eldest son of Yayāti and Devayānī and ancestor of the Yādavas.
N. of a country near Mathurā. -Comp. -कुलोद्भवः, -नन्दनः, -श्रेष्ठः epithets of Kṛiṣṇa.
