यमः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यमः, पुं, (यमयति नियमयति जीवानां फलाफल- मिति । यम् + अच् ।) दक्षिणदिक्पालः । तत्पर्य्यायः । धर्म्मराजः २ पितृपतिः ३ सम- वर्त्ती ४ परेतराट् ५ कृतान्तः ६ यमुनाभ्राता ७ शमनः ८ यमराट् ९ कालः १० दण्डधरः ११ श्राद्धदेवः १२ वैवस्वतः १३ अन्तकः १४ । इत्यमरः । १ । १ । ६१ ॥ धर्म्मः १५ धर्म्मराट् १६ जीवितेशः १७ महिषध्वजः १८ औडम्बरः १९ दण्डधारः २० कीनाशः २१ दध्नः २२ महिष- वाहनः २३ शीर्णपादः २४ भीमशासनः २५ कङ्कः २६ हरिः २७ । इति शब्दरत्नावली ॥ कर्म्मकरः २८ । इति जटाधरः ॥ * ॥ चतुर्द्दश- यमतर्पणं यथा, -- “यां काञ्चित् सरितं प्राप्य कृष्णपक्षे चतुर्द्दशीम् । यमुनायां विशेषेण नियतस्तर्पयेद्यमान् ॥ यमाय धर्म्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्व्वभूतक्षयाय च ॥ औडम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥ एकैकस्य तिलैर्मिश्रांस्त्रींस्त्रीन् दद्यात् जला- ञ्जलीन् । संवत्सरकृतं पापं तत्क्षणादेव नश्यति ॥” इति तिथ्यादितत्त्वधृतभविष्यपुराणवचनम् ॥ तस्योत्पत्तिर्यथा, -- “संज्ञा च रविणा दृष्टा निमीलयति लोचने । यतस्ततः सरोषोऽर्कः संज्ञां निष्ठुरमब्रवीत् ॥ मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् । तस्माज्जनिष्यसे मूढे ! प्रजासंयमनं यमम् ॥” मार्कण्डेय उवाच । “ततस्तस्यास्तु संजज्ञे भर्त्तृशापेन तेन वै । यमश्च यसुना चेयं प्रख्याता सुमहानदी ॥” इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरे ७७ अः ॥ पुण्यात्मनां सम्बन्धे तस्य रूपं यथा, -- “तानागतांस्ततो दृष्ट्वा नरान् धर्म्मपरायणान् । भास्करिः प्रीतिमासाद्य स्वयं नारायणो भवेत् ॥ चतुर्ब्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः । शङ्खचक्रगदापद्मधारी गरुडवाहनः ॥ स्वर्णयज्ञोपवीती च स्मेरचारुतराननः । किरीटी कुण्डली चैव वनमालाविभूषितः ॥” पापिनां सम्बन्धे तस्य रूपं यथा, -- “त्रिंशद्योजनदीर्घाङ्गो वापीसदृशलोचनः । धूम्रवर्णो महातेजाः प्रलयाम्भोधरध्वनिः ॥ तृणाधिराजलोमां च ज्वलदग्निशिखाग्रवत् । नासारन्ध्रस्फुरच्छ्वासस्वनैर्ज्जितमहानिलः ॥ सुदीर्घदशनश्रेणिः सूर्पोपमनखावलिः । प्रचण्डमहिषारूढः संदष्टदशनच्छदः ॥ दण्डहस्तश्चर्म्मवासा भ्रूकुटीकुटिलाननः ॥” इति पाद्मे क्रियायागसारे २२ अध्यायः ॥ इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् । यमात्तस्य भयं नास्ति सर्व्वपापात् प्रमुच्यते ॥ महापापी यदि पठेत् नित्यं भक्त्या च नारद ! । यमः करोति तं शुद्धं कायव्यूहेन निश्चितम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २६ अध्यायः ॥ * ॥ पारिभाषिकयमदन्ता यथा, -- “कार्त्तिकस्य दिनान्यष्टावष्टाग्रहायणस्य च । यमस्य दशना एते लघ्वाहारी स जीवति ॥” इति वैद्यकम् ॥ * ॥ (“पङ्कमत्स्यवसातैलघृतगन्धांश्च ये नराः । मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम् ॥ यूका ललाटमायान्ति बलिं नाश्नन्ति वायसाः । येषां वापि रतिर्नास्ति यातारस्ते यमालयम् ॥” इति सुश्रुते सूत्रस्थाने ३१ अध्यायः ॥ अस्य शापवृत्तान्तं शापान्तवृत्तान्तञ्च यम- राजशब्दे द्रष्टव्यम् ॥ * ॥) शरीरसाधना- पेक्षनित्यकर्म्म । इत्यमरः । २ । ७ । ४९ ॥ “उपायान्तरनिरपेक्षं शरीरमात्रसाध्यं नित्यं यावज्जीवमवश्यकार्य्यं यत्कर्म्म सत्यास्तेयादि तद्- यमः । यमेरल् । ‘अहिंसा सत्यवचनं ब्रह्मचर्य्यमकल्कता । अस्तेयमिति पञ्चैते यमाश्चैव व्रतानि च ॥’ इति मनुः ।” इति तट्टीकायां भरतः ॥ स च अष्टाङ्गयोगान्तर्गताङ्गविशेषः । स तु दशविधो यथा, -- “ब्रह्मचर्य्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता । अहिंसास्तेयमाधुर्य्यं दमश्चैते यमाः स्मृताः ॥” इति गारुडे १०९ अध्यायः ॥ * ॥ स च पञ्चविधो यथा, -- “अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यापरिग्रहौ । यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम् ॥” इति तत्रैव २३० अध्यायः ॥ “अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमाः ।” इति पातञ्जले साधनपादे । ३० ॥ यच्छति निय- च्छति इन्द्रियग्राममनेनेति । यम + घञ् ।) संयमः ॥ यथा, अमरः । ३ । २ । १८ । “वियामो वियमो यामो यमः संयामसंयमौ ॥” काकः । शनिः । इति मेदिनी । मे, २३ ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ३० । “अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥” “अन्तर्यच्छतीति यमः ।” इति तद्भाष्ये शङ्करा- चार्य्यः ॥)
यमः, त्रि, (यच्छति एकत्र गर्भाशये निरतो भवतीति । यम् + अच् ।) यमजः । इति मेदिनी । मे, २३ ॥ तयोर्ज्येष्ठत्वनिरूपणं यथा, “बहिर्वर्णेषु चारित्राद्यमयोः पूर्व्वजन्मतः । यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् । सन्तानः पितरश्चैव तस्मिन् ज्यैष्ठं प्रतिष्ठितम् ॥ जन्मप्राथम्यात् ज्यैष्ठं यमयोः न तु निषेक- प्राथम्यात् जन्मप्राथम्यसन्देहे मुखदर्शनप्राथ- म्यत् ।” इति उद्वाहतत्त्वम् ॥ (यथा, -- “बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ । यमावित्यभिधीयेते धर्म्मेतरपुरःसरौ ॥” इति सुश्रुते शारीरस्थाने द्बितीयेऽध्याये ॥ अनयोरेकस्य वृद्धिरपरस्य क्षीणताकथमित्यत आह । “कर्म्मात्मकत्वाद्विषमांशभेदात् शुक्रासृजं वृद्धिमुपैति कुक्षौ । एकोऽधिको न्यूनतरो द्वितीय एवं यमेऽप्यभ्यधिको विशेषः ॥” इति चरके शारीरस्थाने द्बितीयेऽध्याये ॥)
