सामग्री पर जाएँ

यमकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यमकम्, क्ली, (यमं युग्मभावं कायति प्राप्नीतीति । कै + कः ।) शब्दालङ्कारः । तस्य लक्षणादि यथा, -- “सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥ अत्र द्वयोरपि पदयोः क्वचित् सार्थकत्वं क्वचिन्निरर्थकत्वं क्वचिदेकस्य सार्थकत्वमपरस्य निरर्थकत्वमत उक्तं सत्यर्थ इति । तेनैव क्रमेणेति दमो मोद इत्यादेर्विभक्तविषयत्वं सूचितम् । एतच्च पदपादार्द्धश्लोकावृत्तित्वेन पादाद्यावृत्तेश्चानेकविषयतया प्रभूततमभेदं दिङ्मात्रमुदाह्रियते । ‘नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत् ससुरभिं सुरभिं सुमनोभरैः ॥’ इति माघे । ६ । २ ॥ अत्र पदावृत्तिः पलाशपलाशेति सुरभिं सुरभिमित्यत्र च द्वयोः सार्थकत्वम् । लतान्त- लतान्तेत्यत्र प्रथमस्य निरर्थकत्वं परागपरागे- त्यत्र द्वितीयस्य एवमन्यत्राप्युदाहार्य्यम् । यम- कादौ भवेदैक्यं डलोर्ब्बबोर्लरोस्तथा । इत्युक्त- नयात् । भुजलतां जडतामबलाजन इत्यत्र न यमकत्वहानिः ।” इति साहित्यदर्पणे दशमः परिच्छेदः । १० ॥ (यमकालङ्कारस्तु युग्मपाद- यमकायुग्मपादयमकाद्यन्तयमक-पादमध्ययमक- पादान्तयमक-पादादियमक-पादादिमध्ययमक- पादाद्यन्तयमक-मध्यान्तयमक-काञ्चीयमकगर्भ- यमकचक्रबालयमकपुष्पयमकमहायमकमिथुन- यमकवृन्तयमकविपथयमकसमुद्गयमकसर्व्वयमक यमकावलीभेदात् बहुविधः । तत्तल्लक्षणोदाह- रणादिकं भट्टिकाव्ये दशमसर्गे यमकचक्रे काव्या- दर्शे दशमपरिच्छेदे च द्रष्टव्यम् ॥ व्यूहविशेषः । यथा, महाभारते । ४ । ५५ । ४२ । “ततो विराटस्य सुतः सव्यमावृत्य वाजिनः । यमकं मण्डलं कृत्वा तान् योधान् प्रत्यवारयत् ॥” “यमकं शत्रणां निरोधकं मण्डलं कृत्वा ।” इति तट्टीकायं नीलकण्ठः ॥ सदृशम् । यथा, महा- भारते । ३ । १९ । ८ । “मण्डलानि विचित्राणि यमकानीतराणि च । सव्यानि च विचित्राणि दक्षिणानि च सर्व्वशः ॥” “यमकानि सदृशानि ।” इति तट्टीकायां नील- कण्ठः ॥) त्रि, यमजः । इति मेदिनी । के, १४२ ॥

"https://sa.wiktionary.org/w/index.php?title=यमकम्&oldid=159609" इत्यस्माद् प्रतिप्राप्तम्