यमकोटिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यमकोटिः, स्त्री, लङ्कायाः पूर्ब्बं पृथिव्याश्चतुर्थभागे देशविशेषः । यथा, -- “लङ्का कुमध्ये यमकोटिरस्याः प्राक्पश्चिमे रोमकपत्तनञ्च । अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये वडवानलश्च । कुवृत्तपादान्तरितानि तानि स्थानानि षड्गोलविदो वदन्ति ॥” इति सिद्धान्तशिरोमणिः ॥
