सामग्री पर जाएँ

यमघण्टः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यमघण्टः, पुं, (यमं घण्टयतीति । घण्टि + अण् ।) योगविशेषः । यथा, -- “द्बे मघापूर्ब्बफल्गुन्यौ पुष्याश्लेषा च चन्द्रयोः । ज्येष्ठानुराधा भरणी चाश्विनी कुजवासरे ॥ हस्तार्द्रा चन्द्रजे मूला पूर्ब्बाषाढा च रेवती । जीवे ह्युत्तरभाद्रश्च शुक्राहे स्वातिरोहिणी । शनिवारे शतभिषा श्रवणा यमघण्टकः ॥” इति सारसंग्रहः ॥ अपि च । “घण्टोऽखण्डर्क्षयुक्ते स्वगृहपतिदिने सौम्यवारे- ऽर्य्यमापि ।” अस्य वर्ज्ज्यकालनिर्णयो यथा, -- “यमघण्टे त्यजेदष्टौ मृत्यौ द्वादश नाडिकाः । अन्येषां पापयोगानां मध्याह्नात् परतः शुभम् ॥” अस्य दोषा यथा, -- “एभिर्जातो न जीवेत यदि शक्रसमो भवेत् । विवाहे विधवा नारी यात्रायां मरणं भवेत् ॥ निष्फलं कृषिवाणिज्यं विद्यारम्भे च मूर्खता । गृहप्रवेशे भङ्गः ष्याच्चूडायां मरणं ध्रुवम् ॥ ऋणदाने फलं नास्ति व्रतदाने च निष्फले । शुभकर्म्माणि सर्व्वानि नैव कुर्य्याद्विचक्षणः ॥” इति ज्योतिस्तत्त्वम् ॥ रविवारे १० । ११ । सोमवारे ८ । ९ । मङ्गल- वारे १७ । १८ । १ । २ । बुधवारे १३ । ६ । बृहस्पतिवारे १९ । २० । २६ । २७ । शुक्र- वारे १५ । ४ । शनिवारे २४ । २२ । इति यमघण्टयोगः ॥

"https://sa.wiktionary.org/w/index.php?title=यमघण्टः&oldid=159617" इत्यस्माद् प्रतिप्राप्तम्