सामग्री पर जाएँ

यमदूतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यमदूतः, पुं, (यमस्य दूतः ।) यमस्य चरः । यथा, -- “यमदूतपिशाचाद्यैर्यत् परासुरुपास्यते । सद्भिरौषधवीर्य्याणि तस्मात्तं परिवर्ज्जयेत् ॥” इति वाग्भटे शरीरस्थाने पञ्चमेऽध्याये ॥) धर्म्मस्व उवाच । “के यूयं विकृताकाराः पाशमुद्गरपाणयः । दंष्ट्राकरालवदना अङ्गारसदृशप्रभाः ॥ यूयं सर्व्वे महावीराः ज्वलत्पावकलोचनाः । कृता तथापि युष्माकमियं केन सुदुर्गतिः ॥” यमदूता ऊचुः । यमदूता वयं सर्व्वे यमाज्ञाकारिणः सदा । त्वद्दत्तोऽयं द्विजास्माकं सुमहान् कश्मलो- दयः ॥” इति पद्मपुराणे क्रियायोगसारे ६ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=यमदूतः&oldid=159623" इत्यस्माद् प्रतिप्राप्तम्