सामग्री पर जाएँ

यमलार्ज्जुनौ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यमलार्ज्जुनौ, पुं, (यमलौ च तावर्ज्जुनौ चेति कर्म्मधारयः ।) गोकुलस्थार्ज्जुनवृक्षद्वयम् । तौ कुवेरपुत्त्रौ नलकूवरमनिग्रीवौ । नारदशापात् वृक्षतां गतौ श्रीकृष्णेन उद्धारितौ । यथा, -- “यदिमौ लोकपालस्य पुत्त्रौ भूत्वा तमःप्लुतौ । न विवाससमात्मानं विजानीतः सुदुर्म्मदौ ॥ अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः । स्मृतिः स्यान्मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते । वृत्ते स्वलोकतां भूयो लब्धभक्ती भविष्यतः ॥ श्रीशुक उवाच । स एवमुक्त्वा देवर्षिर्गतो नारायणाश्रमम् । नलकूवरमणिग्रीवावासतुर्यमलार्ज्जुनौ ॥ ऋषेर्भागवतमुख्यस्य सत्यं कर्त्तुं वचो हरिः । जगाम शनकैस्तत्र यत्र स्तो यमलार्ज्जुनौ ॥ देवर्षिर्मे प्रियतमौ यदिमौ धनदात्मजौ । तत्तथा साधयिष्यामि यद्गीतं तन्महात्मना ॥ इत्यन्तरेणार्ज्जुनयोः कृष्णस्तु यमयोर्ययौ । आत्मनिर्व्वेशमात्रेण तीर्य्यग्गतमुदूखलम् ॥ बालेन निष्कर्षतान्वगुदूखलं तत् दामोदरेण तर्षोत्कलिताङ्घ्रिबन्धौ । निष्पेततुः परमविक्रमितातिवेप- स्कन्धप्रबालविटपौ कृतचण्डशब्दौ ॥ तत्र श्रिया परमया ककुभः स्फुरन्तौ सिद्धावुपेत्य कुजयोरिव जातवेदाः । कृष्णं प्रणम्य शिरसाखिललोकनाथं बद्धाञ्जली विरजसाविदमूचतुः स्म ॥ वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्म्मसु मनस्तव पादयोर्नः । स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ श्रीभगवानुवाच । तद्गच्छतं मत्परमौ नलकूवरसादनम् । संजातो मयि भावौ वामीप्सितः परमोऽभवः ॥ श्रीशुक उवाच । इत्युक्तौ तं परिक्रम्य प्रणम्य च पुनः पुनः । बद्धालूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम् ॥” इति श्रीभागवते १० स्कन्धे १० अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=यमलार्ज्जुनौ&oldid=159650" इत्यस्माद् प्रतिप्राप्तम्