यमुनाभित्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यमुनाभित्, [द्] पुं, (यमुनां भिनत्तीति । भिद् + क्विप् ।) बलदेवः । इति हेमचन्द्रः । २ । १३८ ॥ (एतद्वृत्तान्तमुक्तं यथा, हरिवंशे । १०२ । ३४ -- ३६ । “स हलेनानताग्रेण कुले गृह्य महानदीम् । चकर्ष यमुनां रामो व्युत्थितां वनितामिव ॥ सा विह्वलजलस्रोता ह्रदप्रस्थितसञ्चया । व्यावर्त्तत नदी भीता हलमार्गानुसारिणी ॥ लाङ्गलादिष्टमार्गा सा वेगगा वक्रगामिनी । सङ्कर्षणभयत्रस्ता योषेवाकुलतां गता ॥”)
