सामग्री पर जाएँ

यवक्षार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यवक्षारः, पुं, (यवजातः क्षारः । शाकपार्थिव- वत् समासः ।) क्षारविशेषः । यथा, -- “नरसारयवक्षारस्फटिकारित एव काचवक- यन्त्रैः । बहुशः पात्यं सत्त्वं तद्धि महाद्रावकन्नाम ॥” इति रत्नावली ॥ तत्पर्य्यायः । यवाग्रजः २ पाक्यम् ३ । इत्यमरः । २ । ९ । १०८ ॥ यवलासः ४ यवशूकः ५ सारकः ६ रेचकः ७ यवनालकः ८ । इति शब्दरत्नावली ॥ यावशूकः ९ क्षारः १० तर्क्ष्यः ११ तीक्ष्णरसः १२ यवनालजः १३ इति रत्नमाला ॥ यवजः १४ यवशूकजः १५ यवाह्वः १६ यवापत्यम् १७ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कफवातो- दरार्त्तिनाशित्वम् । आमशूलाश्मरुक्कृत्स्नविष- दोषहरत्वम् । सरत्वञ्च । इति राजनिर्घण्टः ॥ अर्शःश्वासगुल्मग्रहणीपाण्डुप्लीहानाहगलामय- नाशित्वञ्च । इति राजवल्लभः ॥ (तथा च । “पाक्यः क्षारो यवक्षारो यवशूको यवाग्रजः । यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः ॥ निहन्ति शूलवातामश्लेष्मस्वासगलामयान् । पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यवक्षार पुं।

यवक्षारः

समानार्थक:यवक्षार,यवाग्रज,पाक्य

2।9।108।2।4

मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका। नैपाली कुनटी गोला यवक्षारो यवाग्रजः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यवक्षार¦ पु॰ यवजातः क्षारः। यवजातक्षारे लवणभेदे शब्दर॰

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यवक्षार¦ m. (-रः) Salt-petre, nitre, nitrate of potash. E. यव barley क्षार ashes or salt; being prepared, according to some of the com- mentators, accurately enough, from burnt barley, the potash being thus procured; according to others it is so termed, from the crystals being supposed to resemble the spike of the plant.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यवक्षार/ यव--क्षार m. an alkali prepared from the ashes of burnt green barley-corns Sus3r. S3a1rn3gS.

"https://sa.wiktionary.org/w/index.php?title=यवक्षार&oldid=380057" इत्यस्माद् प्रतिप्राप्तम्