यवनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यवनः, पुं, देशविशेषः । (यथा, मात्स्ये । १२० । ४३ । “तान् देशान् प्लावयन्ति स्मम्लेच्छप्रायांश्च सर्व्वशः । सशैलान् कुकुरान् रौध्रान् वर्वरान् यवनान् खसान् ॥”) वेगः । वेगाधिकाश्वः । इति मेदिनी ॥ गोधूमः । गर्जरतृणम् । तुरुष्कः । इति राजनिर्घण्टः ॥ (यौति मिश्रीभवतीति । यु + “सुयुरुवृञो युच् ।” उणा० २ । ७४ । इति युच् ।) जाति- विशेषः । इति शब्दरत्नावली ॥ स तु यवन- देशोद्भवययातिराजपुत्त्रतुर्व्वसुवंशः । यथा, -- “यदोस्तु जाता यदवस्तुर्व्वसोर्यवनाः सुताः । द्रुह्योस्तु तनया भोजा अनोस्तु म्लेच्छजातयः । पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव ! ॥” इति मात्स्ये ३४ अध्यायः ॥ * ॥ सगरराजेनैषां सर्व्वशिरोमुण्डनं सर्व्वधर्म्मराहि- त्यञ्च कृतं ते चात्मधर्म्मपरित्यागात् म्लेच्छत्वं ययुरिति विष्णुपुराणोक्तत्वात् यवनः मोसल- मानेङ्गरेजोभयजातिवाचकः । यवनशब्दश्चवर्ग- तृतीयादिरिति रघुनन्दनभट्टाचार्य्येण लिखि- तम् ॥ जवनादीनान्तु सर्व्वधर्म्मराहित्यमुक्तं हरिवंशे । यथा, -- “सगरस्तां प्रतिज्ञाञ्च गुरोर्वाक्यं निशम्य च । धर्म्मं जघान तेषां वै वेशान्यत्वं चकार ह ॥ अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् । जवनानां शिरः सर्व्वं काम्बोजानान्तथैव च ॥ पारदा मुक्तकेशाश्च पह्नवाः श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ शका जवनकाम्बोजाः पारदाः पह्नवास्तथा । कोलिसर्पाः समहिषा दार्व्वाश्चोलाः सकेरलाः ॥ वशिष्ठवचनाद्राजन् ! सगरेण महात्मना । आराधयन्महादेवं सोऽयश्चूर्णमभक्षयत् । ददौ वरञ्च तुष्टोऽस्मै वर्षे द्वादशमे हरः ॥ सभाजयामास च तं यवनेशो ह्यनात्मजः । तद्योषित्सङ्गमाच्चास्य पुत्त्रोऽभूदलिसन्निभः ॥ तं कालयवनं नाम राज्ये स्वे यवनेश्वरः । अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ॥ स च वीर्य्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् । पप्रच्छ नारदश्चास्मै कथयामास यादवान् ॥ म्लेच्छकोटिसहस्राणां सहस्रैः सोऽभिसंवृतः । गजाश्वरथसम्पन्नैश्चकार परमोद्यमम् ॥ प्रययौ चाव्यवच्छिन्नं छिन्नयानो दिने दिने । यादवान् प्रति सामर्षो मैत्रेय मथुरां पुरीम् ॥ कृष्णोऽपि चिन्तयामास क्षयितं यादवं कुलम् । यवनेन रणे गम्यं मागधस्य भविष्यति ॥ मागधस्य बलं क्षीणं स कालयवनो बली । हन्ता तदिदमायातं यदूनां व्यसनं द्विधा ॥ तस्माद्दूर्गं करिष्यामि यदूनामतिदुर्जयम् । स्त्रियोऽपि यत्र युध्येयुः किं पुनर्वृष्णिपुङ्गवाः ॥” “इति सञ्चिन्त्य गोविन्दो योजनानि महोदधिम् । ययाचे द्वादशपुरीं द्वारकां तत्र निर्म्ममे ॥ मथुरावासिनो लोकांस्तत्रानीय जनार्द्दनः । आसन्ने कालयवने मथुराञ्च स्वयं ययौ ॥ वहिरावासिते सैन्ये मथुराया निरायुधः । निर्जगाम स गोविन्दो ददृशे यवनश्च तम् ॥ स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः । अनुयातो महायोगिचेतोभिः प्राप्यते न यः ॥ तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् । तत्र शेते महावीर्य्यो मुचुकुन्दो नरेश्वरः ॥ सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् । पादेन ताडयामास कृष्णं मत्वा सुदुर्म्मतिः ॥ दृष्टमात्रश्च तेनासौ जज्वाल यवनोऽग्निबा । तत्क्रोधजेन मैत्रेय ! भस्मीभूतश्च तत्क्षणात् ॥” इति विष्णुपुराणे ५ अंशे २३ अध्यायः ॥
यवनः, त्रि, (यौतीति । यु + “नन्दिग्रहीति ।” ३ । १ । १३४ । इति ल्युः ।) वेगी । इति मेदिनी । ने, १११ ॥ (यथा, नैषधचरिते । १ । ६५ । “तमश्ववारा यवनाश्वयायिनं प्रकाशरूपा मनुजेशमन्वयुः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यवनः [yavanḥ], [यु-युच्]
A Greek, an Ionian.
Any foreigner, or barbarian; Ms.1.44; (the word is applied at present to a Mahomedan or a European also).
A carrot.
Olibanum.
A courser or swift horse.
Speed.
Wheat.
A kind of grass.-नाः (m. pl.)
The Ionians or Greeks.
The Greek astrologers. -नम् Mixing, mingling (esp. with water).-Comp. -अरिः N. of Kṛiṣṇa. -आचार्यः the reputed author of astronomical book called Tājak.
इष्टः a kind of garlic.
a kind of onion.
the Nimba tree. (-ष्टा) the wild date-tree.
(ष्टम्) lead.
an onion or garlic.
pepper. -देशजम् benzoin. -द्विष्टः bdellium. -प्रियम् pepper.
