सामग्री पर जाएँ

यवमध्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यवमध्यम्, क्ली, (यववत् मध्यं यस्य ।) चान्द्रायण- प्रभेदः । यथा, -- “शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणन्तथा । यवमध्यं तथा प्रोक्तं तथा पिपीलिकाकृति ॥” इति प्रायश्चित्ततत्त्वम् ॥ (पुं, यज्ञभेदः । यथा, शतपथब्राह्मणे । १३ । ६ । १ । ९ । “यवमध्यः पञ्चरात्रो भवति ॥” यवाकारमध्ये, त्रि । यथा, सुश्रुते चिकित्सा- स्थाने १ अध्याये । “शरावनिम्नमध्याश्च यवमध्यास्तथापरे । एवंप्रकाराकृतयो भवन्त्यागन्तवो व्रणाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=यवमध्यम्&oldid=159722" इत्यस्माद् प्रतिप्राप्तम्