सामग्री पर जाएँ

यविष्ठः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यविष्ठः, त्रि, (अयमेषामतिशयेन युवा इति । युवन् + इष्ठन् । “स्थूलदूरेति ।” यणादिलोपगुणौ ।) अतिशययुवा । (यथा, ऋग्वेदे । १ । १४७ । २ । “वोधा मे अस्य वचसो यविष्ठ ।”) कनिष्ठभ्रातरि, पुं, । इति हेमचन्द्रः । ३ । ११६ ॥ (त्रिष्वपि । यथा, भागवते । ३ । १ । ५ । “भ्रातुर्य्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह ॥”)

"https://sa.wiktionary.org/w/index.php?title=यविष्ठः&oldid=159756" इत्यस्माद् प्रतिप्राप्तम्