सामग्री पर जाएँ

याच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

याच, टु डु ऋ ञ याचने । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-द्विक०-सेट् ।) याचनमात्मने दानार्थं प्रेरणम् । टु, याचथुः । डु, याचि- त्रिमम् । ऋ, अययाचत् । ञ, याचति याचते नृपं विप्रः । ग्रहणार्थं प्रेरणेऽपि याचति वित्तं गुरवे शिष्यः । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

याच¦ याचने भ्वा॰ उभ॰ द्विक॰ सेट्। याचति ते अयाचीत्अयाचिष्ट। ऋदित् चङि न ह्रस्वः। द्वित् अथु याच-थुः। द्वित् याचित्रम्। गोणेऽस्य कर्मणि सकारादयः।

"https://sa.wiktionary.org/w/index.php?title=याच&oldid=381183" इत्यस्माद् प्रतिप्राप्तम्