याज्ञवल्क्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
याज्ञवल्क्यः, पुं, (वल्कयतीति । वल्क + अच् । यज्ञस्य वल्को वक्ता । तस्य गोत्रापत्यम् । यज्ञवल्क + “गर्गादिभ्यो यञ् ।” ४ । २ । १०५ । इति यञ् ।) धर्म्मशास्त्रप्रयोजकमुनिविशेषः । तत्पर्य्यायः । ब्रह्मरात्रिः २ योगेशः ३ । इति हेमचन्द्रः ॥ योगीश्वरः ४ । इति मिताक्षरा ॥ (महर्षिरयं याज्ञवल्क्यः सूर्य्यात् शुक्लयजुर्व्वेदं प्राप्तवान् । तत्रादौ ब्रह्मपरम्परया प्राप्तं वेदं वेदव्यासो मन्दमतीन् मनुष्यान् विचिन्त्य तेषु कृपापरः चतुर्धा व्यस्य ऋग्यजुःसामाथर्व्वाख्यां- श्चतुरो वेदान् पैलवैशम्पायनजैमिनिसुमन्तुभ्यः क्रमादुपदिदेश ते च स्वशिष्येभ्यः । तत्र व्यास- शिष्यो वैशम्पायनो याज्ञवल्क्यादिभ्यः स्वशि- ष्येभ्यो यजुर्व्वेदमध्यापयत् । तत्र दैवात् केनापि हेतुना क्रुद्धो गुरुः शिष्यं याज्ञवल्क्यं अधीतवेद- परित्यागार्थमादिष्टवान् । याज्ञवल्क्योऽपि योग- बलेन अधीतयजुर्विद्यां मूर्त्तिमतीं विधायोद्व- वाम । वान्तानि यजूंषि गृह्णीतेति गुरूक्ता अन्ये शिष्यास्तित्तिरयो भूत्वा यजूंष्यभक्षयन् । तान्येव यजूंषि बुद्धिमालिन्यात् कृष्णानि जातानि । ततो वेदहीनोऽतिदुःखितो याज्ञ- वल्क्यः सूर्य्यमाराध्य शुक्लानि यजूंषि प्राप्तवान् तानि च जाबालगौधेयकाण्वमाध्यन्दिनादीन् पञ्चदशशिष्यानध्यापयामास । तथाहि भागवते द्बादशस्कन्धे ६ अध्याये । “तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः । सव्याहृतिकान् सोङ्कारांश्चातुर्होत्रविवक्षया ॥ पुत्त्रानध्यापयत् तांस्तु ब्रह्मर्षीन् ब्रह्मकोविदान् । ते तु धर्म्मोपदेष्टारः स्वपुत्त्रेभ्यः समादिशन् ॥ ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः । चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥ क्षीणायुषः क्षीणसत्त्वान्दुर्म्मेधान् वीक्ष्य कालतः । वेदान् ब्रह्मर्षयो व्यस्यन् हृदिस्थाच्युतचोदिताः ॥ अस्मिन्नप्यन्तरे ब्रह्मन् भगवान् लोकभावनः । ब्रह्मेशाद्यैर्लोकपालैर्याचियो धर्म्मगुप्तये ॥ पराशरात् सत्यवत्यामंशांशकलया विभुः । अवतीर्णो महाभाग वेदं चक्रे चतुर्व्विधम् ॥ ऋगथर्व्वयजुःसाम्नां राशीनुद्धृत्य वर्गशः । चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव ॥ तासां स चतुरः शिष्यानुपाहूय महामतिः । एकैकां संहितां ब्रह्मन्नैकैकस्मै ददौ विभुः ॥ पैलाय संहितामाद्यां बह्वृचाख्यामुवाच ह । वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ॥ साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् । अथर्व्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ॥” “वैशम्पायनशिष्या वै चरकाध्वर्य्यवोऽभवन् । यच्चेरुर्ब्रह्महत्यांहःक्षपणं स्वगुरोर्व्रतम् ॥ याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन् कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥ इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया । विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥ देवरातसुतः सोऽपि च्छर्द्दित्वा यजुषां गणम् । ततो गतोऽथ मुनयो ददृशुस्तान् यजुर्गणान् ॥ यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाददुः । तैत्तिरीया इति यजुःशाखा आसन् सुपेशलाः ॥ याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधि गवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥” “एवं स्तुतः स भगवान् वाजिरूपधरो रविः । यजूंष्ययातयामानि मुनयेऽदात् प्रसादितः ॥ यजुर्भिरकरोच्छाखा दश पञ्च शतैर्विभुः । जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः ॥” अयमेव महर्षिर्मिथिलास्थ एव सामश्रवःप्रभृ- तिभिः ऋषिभिर्वणाश्रमेतरधर्म्मज्ञानार्थमादिष्ट आचारव्यवहारप्रायश्चित्ताख्यकाण्डत्रयात्मकं धर्म्मशास्त्रं प्रणीय तेभ्यः श्रावितवान् । यदुक्तं याज्ञवल्क्यसंहितायां ग्रन्थारम्भे । “योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्म्मानशेषतः । मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्- मुनीन् ॥”) क्ली, उपनिषत्विशेषः । यथा, मुक्तिकोपनिषदि । “गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
याज्ञवल्क्यः [yājñavalkyḥ], N. of a celebrated ancient sage, the first reputed teacher of वाजसनेयी संहिता (शुक्ल यजुर्वेद) and the author of a well-known code of laws only next in importance to that of Manu.
