याज्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
याज्यम्, क्ली, (इज्यत इति । यज् + ण्यत् । “यज- याचरुचप्रवचर्चश्च ।” ७ । ३ । ६६ । इति कुत्व- निषेधः ।) यागलब्धधनादि । इति सिद्धान्त- कौमुदी ॥ यजनीये, त्रि ॥ (यथा, मनौ । ८ । ३१७ । “अन्नादेर्भ्रूणहा मार्ष्टि पत्यौ भार्य्यापचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्वि- षात् ॥” शिष्यः । शासनार्हः । यथा, देवीभागवते । १ । १८ । ९ । “याज्योऽस्ति जनकस्तत्र जीवन्मुक्तो नराधिपः । विदेहो लोकविदितः पाति राज्यमकण्टकम् ॥”)
