सामग्री पर जाएँ

यादसांपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यादसांपतिः, पुं, (यादसां जलजन्तूनां पतिः । षष्ठ्या अलुक् ।) समुद्रः । इत्यमरः । १ । १ । ६४ ॥ वरुणः । इति मेदिनी । ते, २३२ ॥ (यथा, देवीभागवते । ३ । ९ । ३५ । “अश्विनौ वसवस्त्वष्टा कुवेरो यादसांपतिः ॥” क्वचित् विशेषणमपि । यथा, मार्कण्डेये । २२ । ११ । “यावदन्तर्जले देवं वरुणं यादसांपतिम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=यादसांपति&oldid=159880" इत्यस्माद् प्रतिप्राप्तम्