यामार्द्धम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यामार्द्धम्, क्ली, (यामस्यार्द्धम् ।) प्रहरस्यार्द्धम् । तस्याधिपा यथा, -- “वारेशादर्द्धयामेषु रात्र्यह्नोः पञ्च षट्क्रमात् । अधिपाः स्युर्ग्रहास्तत्र यथार्काहे भवन्ति हि ॥ रवीज्येन्दुभृगुक्ष्माजशनिज्ञरवयो निशि । रविशुक्रज्ञरात्रीशशनीज्यकुजभास्कराः ॥ दिने तूह्याः परेष्वेवं तत्राध्यक्षाश्चतुर्ग्रहाः । पापदण्डे भवेद्रिष्टिः शुभदण्डे शुभं भवेत् ॥ शुभग्रहस्य दण्डे तु कर्म्मारम्भाच्छुभं भवेत् । आरम्भात् पापदण्डे तु कर्म्म निष्फलतां व्रजेत् ॥ यस्यार्द्धयामस्तस्यैव प्राग्दण्डः समुदाहृतः । षट् षट् परीत्य दण्डाश्च त्रयो रात्रौ मतास्तथा ॥ यामार्द्धाधिपसंख्यातो द्बितीयस्तु तदर्द्धतः । तदर्द्धात्तु तृतीयः स्यात्तदर्द्धात्तु तुरीयकः ॥ अङ्काभावे तु राहुः स्यात्तदङ्को वसुसंख्यकः । भग्नाङ्कस्य परित्यागाद्दिवादण्डाधिपा यथा ॥” इति ज्जोतिषतत्त्वम् ॥
