यामिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यामिः, स्त्री, (याति कुलात् कुलान्तरमिति । या + बाहुलकात् मिः ।) स्वसा । कुलस्त्री । इत्यमरः । २ । ३ । १४२ ॥ “स्वसा भगिनी । कुलस्त्री कुलबधूः । प्रहरे संयमे यामो यामिः स्वसृकुलस्त्रियोरित्यन्तःस्थादौ रभसः ॥ जिह्मस्तु कुटिले निन्द्ये जामिः स्वसृकुलस्त्रियोरिति चवर्गतृतीयादावजयः इति भरतमुकुटौ ॥ यथा, जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ॥ इनि स्वामी ॥ जै क्षये बाहुलकान्मिः । यद्वा जमु अदने बाहुलकादिण् जामिरिति । अन्तः- स्थादौ या प्रापणे धातुर्बोध्यः ।” इति रामा- श्रमः ॥ (यथा, मनौ । ४ । १८३ । “यामयोऽप्सरसां लोके वैश्वदेवस्य वान्धवाः ॥”) यामिनी । इति शब्दरत्नावली ॥ धर्म्मस्य पत्नी । तस्याः कन्या नागवीथी । यथा, -- “अरुन्धती वसुर्यामिर्लम्बा भानुर्मरुत्वती । सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च नामतः । धर्म्मपत्न्यो दश त्वैतास्तास्वपत्यानि मे शृणु । लम्बायाश्चैव घोषोऽसौ नागवीथी तु यामिजा ॥” इति वह्निपुराणे कश्यपीयप्रजासर्गः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यामिः [yāmiḥ] मी [mī], मी f.
A sister (see जामि); यामिहरणजनितानु- शयः Śi.15.53.
Night.
A daughter in-law; Ms. 4.18.
A noble woman.
The south.
Helltorture (यमयातना).
The Bharaṇī constellation.
