यामित्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यामित्रम्, क्ली, लग्नात् सप्तमराशिः । यथा, -- “धीस्थानं पञ्चमं ज्ञेयं यामित्रं सप्तमं स्मृतम् । द्युनं द्यूनं तथास्ताख्यं षट्कोणं रिपुमन्दिरम् ॥” यामित्रवेधो यथा, -- “पापात् सप्तमगः शशी यदि भवेत् पापेन युक्तोऽथवा यत्नेनाशु विवर्जयन्मुनिमतो दोषोऽप्ययं कथ्यते । यात्रायां विपदो गृहे सुतवधः क्षौरेषु रोगोद्- भवो- ऽप्युद्वाहे विधवा व्रते तु मरणं शूलञ्च पुंस्कर्म्मणि ॥ रविमन्दकुजाक्रान्त्रं मृगाङ्कात् सप्तमं त्यजेत् । विवाहयात्राचूडासु गृहकर्म्मप्रवेशने ॥” इति यामित्रवेधः ॥ * ॥ अस्य प्रतिप्रसवो यथा । “मूलत्रिकोणनिजमन्दिरगोऽथ पूर्णो मित्रर्क्षसौम्यगृहगोऽथ तदीक्षितो वा । यामित्रवेधविहितानपहृत्य दोषान् दोषाकरः सुखमनेकविधं विधत्ते ॥” इति ज्योतिस्तत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यामित्र¦ न॰ ज्योतिषोक्ते लग्नराशिभ्यां सप्तमे स्थाने।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यामित्र n. = जामित्र, a diameter VarBr2S.