सामग्री पर जाएँ

यावः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यावः, पुं, (यौति यूयते वा । यु + अच् अप् वा । ततः प्रज्ञाद्यण् ।) अलक्तः । इत्यमरः । २ । ६ । २२५ ॥ (तथास्य पर्य्यायः । “लाक्षा पलङ्कषालक्तो यावो वृक्षामयो जतु ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ यथा, नैषधे । २२ । ४६ । “ततस्तदीयाधरयावयोगा- दुदेति विम्बारुणविम्ब एषः ॥” यव एव । स्वार्थेऽण् । यावः । यथा, तैत्तिरीय- संहितायाम् । ४ । ३ । ९ । २ । “यावानां भागोऽस्य यावानामाधिपत्यमिति ॥”)

"https://sa.wiktionary.org/w/index.php?title=यावः&oldid=159951" इत्यस्माद् प्रतिप्राप्तम्