यावनाली
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यावनाली, स्त्री, (यवनालस्य विकारः । यव- नाल + अण् । ततो ङीप् ।) यावनालशर्करा । तत्पर्य्यायः । हिमोत्पन्ना २ हिमानी ३ हिम- शर्करा ४ क्षुद्रशर्करिका ५ क्षुद्रा ६ गडभा ७ जलविन्दुजा ८ । अस्या गुणाः । गौल्यत्वम् । उष्णत्वम् । तिक्तत्वम् । अतिपिच्छिलत्वम् । वातघ्नत्वम् । सारकत्वम् । रुच्यत्वम् । दाह- पित्तास्रदायित्वञ्च । इति राजनिर्घण्टः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यावनाली¦ स्त्री यवनालस्य विकारः अण् ङीप्। यव-नालभवायां शर्करायाम् राजनि॰।