यावानी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यावानी, स्त्री, (दुष्टो यवः । “यवाद्दोषे ।” ४ । १ । ४९ । इत्यस्य वर्त्तिकोक्त्या ङीष् आनुगागमश्च । पक्षे स्वार्थे कन् ।) ओषधिभेदः । योयानि इति भाषा । तत्पर्य्यायः । दीप्यकः २ दीप्यः ३ यवसाह्वः ४ यवाग्रजः ५ दीपनी ६ उग्रगन्धा ७ वातारिः ८ भूकद- म्बकः ९ यवजः १० दीपनीयः ११ शूलहन्त्री १२ यवानिका १३ उग्रा १४ तीव्रगन्धा १५ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्ण- त्वम् । वातार्शःश्लेष्मशूलाध्मानकृमिच्छर्द्दिनाशि- त्वम् । दीपनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । अथ यवान्या नामगुणाः । “यवानिकोग्रगन्धा च ब्रह्मदर्भाजमोदिका । सवोक्ता दीप्यका दीप्या तथा स्याद्यवसाह्वया ॥ यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः । दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत् । वातश्लेष्मोदरानाहगुल्मप्लीहकृमिप्रणुत् ॥ अथ अजमोदाया नामानि गुणाश्च । अजमोदा खराश्वा च मायूरी दीप्यकस्तथा । तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तका ॥ अजमोदा कटुस्तीक्ष्णा दीपनी कफवातनुत् । उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः ॥ नेत्रामयकृमिच्छर्द्दिहिक्कावस्तिरुजो हरेत् ॥ अथ खुरासानीयवानीनामगुणाः । पारसीकयवानी तु यवानीसदृशी गुणः । विशेषात् पाचनी रुच्या ग्राहिणी मादिनी गुरुः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
