युक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्तिः, स्त्री, (युज्यते इति । युज् + क्तिन् ।) न्यायः । इति मेदिनी । ते, ४७ ॥ (यथा, पञ्चतन्त्रे । ३ । १६३ । “तस्य तद्बचनं श्रुत्वा धर्म्मयुक्तिसमन्वितम् । उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम् ॥”) लोकव्यवहारः । इति व्यवहारमातृका ॥ “धर्म्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मतः ॥” इति स्मृतिश्च ॥ अनुमानम् । यथा, -- “युक्तिष्वप्यवसन्नासु सपथेनैनमर्द्दयेत् ॥ युक्तिरनुमानम् । अनुमानेन विज्ञेयं न स्यातां पत्रसाक्षिणौ । इत्येकवाक्यत्वादिति विवरणम् ॥ अथ युक्तिः । नारदः । उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्च घातकः । केशाकेशिगृहीतश्च युगपत् पारदारिकः ॥ कुद्दालपाणिर्विज्ञेयः सेतुभेत्ता समीपगः । तथा कुठारहस्तश्च वनच्छेत्ता प्रकीर्त्तितः ॥ प्रत्यक्षचिह्नैर्विज्ञेयो दण्डपारुष्यकृन्नरः । असाक्षिप्रत्यता ह्येते पारुष्ये तु परीक्षणम् ॥ प्रत्यक्षचिह्नैः रुधिराक्तखड्गादिभिः । पारुष्ये वाक्पारुष्ये । शङ्खः । लोप्तहस्तश्च चौर इति । नारदः । अभीक्ष्णं दिश्यमानोऽपि प्रतिहन्यान्न तद्वचः । त्रिचतुःपञ्चकृत्वो वा परतोऽर्थं तमावहेत् ॥ यदा धनिकेनाधमर्णिकस्त्रिचतुःपञ्चकृत्वो वा त्वं मे ऋणं धारयसीति पुनःपुनर्दिश्यमानोऽपि न तद्बाक्यं प्रतिहन्ति तदोत्तरकालमनेनाभ्युप- गतोऽयमर्थ इत्यवधार्य्य तमर्थमृणिकाय दापये- दित्यर्थः ।” इति व्यवहारतत्त्वम् ॥ * ॥ नाट्या- लङ्कारविशेषः । तस्य लक्षणम् । यथा । “युक्ति- रर्थावधारणम् । उदाहरणं यथा, -- ‘यदिसमरमपास्य नास्ति मृत्यो- र्भयमिति युक्तमितोऽन्यतः प्रयातुम् । अथ मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वम् ॥’ इति वेणीसंहारः ।” इति साहित्यदर्पणम् ॥ (उपायः । यथा, कथासरित्सागरे । ३९ । ५६ । “तत्स शृङ्गभुजो देशान्निर्व्वास्येताचिरात् यथा । तां पुत्त्र ! चिन्तयेर्युक्तिं त्वमन्यैर्भ्रातृभिः सह ॥” भोगः । यथा, सूर्य्यसिद्धान्ते । ७ । २४ । “त्रिचतुःकर्णयुक्त्याप्तास्ते द्बिघ्नास्त्रिज्यया हताः । स्फुटाः स्वकर्णस्तिथ्याप्ता भवेयुर्मानलिप्तिकाः ॥” प्रमाणविशेषः । तद्यथा, -- “अत्रासां तन्त्रयुक्तीनां किं प्रयोजनमित्युच्यते वाक्ययोजनमर्थयोजनञ्च ।” “असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम् । स्ववाक्यसिद्धिरपि च क्रियते तन्त्रयुक्तितः ॥ व्यक्ता नोक्ताश्च ये ह्यर्था लीना ये चाप्य- निर्म्मलाः । लेशोक्ता ये क्वचित्तन्त्रे तेषाञ्चापि प्रसाधनम् ॥ यथाम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा । प्रबोध्यस्य प्रकाशार्थास्तथा तन्त्रस्य युक्तयः ॥” इति सुश्रुते उत्तरतन्त्रे ६५ अध्यायः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्ति¦ स्त्री युज--क्तिन्।

१ न्याये मेदि॰।

२ व्यवहारे

३ अनुमाने

४ तत्साधकलिङ्गज्ञानादौ स्वपक्षसाधकविपक्षबाधकप्रमा-णोपन्धासे तर्कप्र॰ व्यवहारे कानि चित् वेषाञ्चिल्लि-ङ्गानि नारदेनोक्तानि यथा
“उल्काहस्तोऽग्निदोज्ञेयः शस्त्रपाणिश्च पातकः। केशाकेशिगृहीतश्च युगपत्[Page4778-b+ 38] पारदारिकः। कुद्दालवाणिर्विज्ञेयः सेतुभेत्ता समीपगः। तथा कुठारहस्तश्च वनच्छेत्ता प्रकीर्त्तितः। प्रत्यक्ष-चिह्नैर्विज्ञेयो दण्डपारुष्यकृन्नरः। असाक्षिप्रत्ययाह्येते पारुष्ये तु परीक्षणम्”।
“युक्तिरर्थावधारणम्” सा॰ द॰ उक्ते

६ नाटकाङ्गविशेषे च। तत्र न्याये
“श्रुत्यो-र्विरोधे न्यायस्तु बलवानर्थनिर्णये। युक्तिहीनविचारे तुधर्महानिः प्रजायते” मीमांसकाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्ति¦ f. (-क्तिः)
1. Union, connection, joining.
2. Propriety, fitness.
3. Usage, custom, traditionary and unwritten law.
4. Inference, de- duction from circumstance or argument, the reason of a thing or argument.
5. Insertion of circumstances in written evidence, specification in writting of place, time, &c., considered as one of the means of verifying such evidence.
6. A figure of rhetoric, emble- matic or mystical expression of purpose, so as to conceal it form all but its immediate object.
7. Supplying an ellipsis.
8. Connec- tion of dramatic events, the production of one incident by ano- ther.
9. Alloying of metals. E. युज् to join, &c., aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्तिः [yuktiḥ], f. [युज्-क्तिन्]

Union, junction, combination.

Application, use, employment.

Yoking, harnessing.

A practice, usage.

A means, an expedient, a plan, scheme.

A contrivance, device, trick.

Propriety, fitness, adjustment, aptness, suitableness.

Skill, art.

Reasoning, arguing, an argument.

Inference, deduction.

Reason, ground.

Arrangement (रचना); यत्र खल्वियं वाचोयुक्तिः Māl.1.

(In law) Probability, enumeration or specification of circumstances, such as time, place &c.; युक्तिप्राप्ति- क्रियाचिह्नसंबन्धाभोगहेतुभिः Y.2.92,212.

(In dramas) The regular chain or connection of events; cf. S. D. 343.

(In Rhet.) Emblematical or covert expression of one's purpose or design.

Sum, total.

Alloying of metal.

Charm, spell.

(In gram.) A sentence.

(In astr.) A conjunction. (-युक्त्या ind.

by means or virtue of.

cleverly, skilfully.

properly, fitly, duly). -Comp. -कथनम् statement of reasons. -कर a.

suitable, fit.

proved. -ज्ञ a. skilled in expedients, inventive. -युक्त a.

suitable, fit

expert, skilful.

established, proved.

argumentative. -शास्त्रम् the science of what is suitable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्ति f. union , junction , connection , combination AitBr. Ta1n2d2Br.

युक्ति f. preparation , going to , making ready for( loc. or comp. ) R.

युक्ति f. application , practice , usage Katha1s. Sus3r.

युक्ति f. trick , contrivance , means , expedient , artifice , cunning device , magic Ka1v. Katha1s. Pan5car. ( युक्तिं-कृ, to find out or employ an expedient ; युक्तिibc. ; 671798 त्याind. ,671798.1 तिभिस्ind. ,and 671798.2 ति-तस्ind. by device or stratagem , artfully , skilfully , under pretext or pretence ; युक्त्याetc. ifc. = by means of)

युक्ति f. reasoning , argument , proof , influence , induction , deduction from circumstances Kap. Ka1v. Var. etc. ( -तस्, by means of an argument)

युक्ति f. reason , ground , motive BhP. Ma1rkP.

युक्ति f. suitableness , adaptedness , fitness , propriety , correctness MBh. Ka1v. etc. ( युक्त्याand ति-तस्, properly , suitably , fitly , justly , duly)

युक्ति f. meditation on the supreme being , contemplation , union with the universal spirit S3am2k. (See. IW. 111 , 3 )

युक्ति f. (in law) enumeration of circumstances , specification of place and time etc. Ya1jn5. ii , 92 ; 212

युक्ति f. (in rhet. )emblematic or mystical expression of purpose W.

युक्ति f. (in dram. ) connection of the events in a plot , concatenation of incidents , intelligent weighing of the circumstances Das3ar. Sa1h. Prata1p.

युक्ति f. (in astron. ) conjunction Jyot.

युक्ति f. (in gram.) connection of words , a sentence Nir.

युक्ति f. connection of letters Vishn2.

युक्ति f. supplying an ellipsis W.

युक्ति f. mixture or alloying of metals VarBr2S.

युक्ति f. sum , total Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=युक्ति&oldid=383438" इत्यस्माद् प्रतिप्राप्तम्