सामग्री पर जाएँ

युगलमन्त्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

युगलमन्त्रः, पुं, (युगलाख्यो मन्त्रः । शाकपार्थिववत् समासः ।) लक्ष्मीनारायणमन्त्रः । यथा, -- “इदं रहस्यं परमं लक्ष्मीनारायणाह्वयम् । राजंस्तवापि वक्ष्यामि प्रपत्तिं शरणागतिम् ॥ द्बयात् परतरो मन्त्रो नास्ति सत्यं ब्रवीमि ते । द्वयात् परतरो धर्म्मो नास्ति लोकेषु कश्चन ॥ सर्व्वेषां कृष्णमन्त्राणां मध्ये युगलसंज्ञकम् । मन्त्रं हि सर्व्वतः श्रेष्ठं कृष्णजप्यमनुत्तमम् ॥ सर्व्वतो युगलं मन्त्रं कार्ष्णं परतरं नृप ! । गुह्याद्गुह्यतमं जातु ज्ञेयं तत्तदुपासकैः ॥” इति पाद्मोत्तरखण्डे २५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=युगलमन्त्रः&oldid=160007" इत्यस्माद् प्रतिप्राप्तम्