सामग्री पर जाएँ

युग्मम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

युग्मम्, क्ली, (युज्यते इति । युज् + “युजिरुचि- तिजां कुश्च ।” उणा० १ । १४५ । इति मक् ।) द्वयम् । योडा इति भाषा । तत्पर्य्यायः । द्बन्द्वम् २ युगलम् ३ युगम् ४ । इत्यमरः । २ । ५ । ३८ ॥ (यथा, रामायणे । २ । ९१ । ७६ । “पादुकोपानहाञ्चैव युगान्यत्र सहस्रशः ॥”) द्बितीयचतुर्थषष्ठाष्टमदशमद्वादशराशयः । यथा “क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च ओजोऽथ युग्मं विषमः समश्च । चरस्थिरद्ब्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः ॥” इति ज्योतिस्तत्त्वम् ॥ (द्बितीया ।) मेलनम् । यथा, -- “युग्माग्निकृतभूतानि षण्मून्योर्व्वसुरन्ध्रयोः । रुद्रेण द्बादशी युक्ता चतुर्दश्याथ पूर्णिमा ॥ प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम् । एतद्ब्यस्तं महाघोरं हन्ति पुण्यं पुराकृतम् ॥ द्बितीयातृतीययोश्चतुर्थीपञ्चम्योः षष्ठीसप्तम्यो- रष्टमीनवम्योरेकादशीद्बादश्योः चतुर्द्दशीपौर्ण- मास्योः प्रतिपदमावास्ययोर्युग्मं मेलनम् । तत्त- त्तिथिमात्रनिमित्तके कर्म्मणि महाफलम् । एतत् प्रयोजनन्तु तिथिविशेषविहिते कर्म्मणि तिथिखण्डविशेषनियमनम् । स्वतिथ्या कर्म्मानि- र्व्वाहे सहायभावेनान्यतिथ्यनुप्रवेशादुपवासा- द्याचरणञ्च ।” इति तिथ्यादितत्त्वम् ॥ (द्बय- विशिष्टे, त्रि । यथा, मनुः । ३ । ४८ । “युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु । तस्मात् युग्मासु पुत्त्रार्थीसंविशेदार्त्तवे स्त्रियम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=युग्मम्&oldid=160016" इत्यस्माद् प्रतिप्राप्तम्