सामग्री पर जाएँ

युग्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

युग्यम्, क्ली, (युगाय हितम् । युग + “उगवादिभ्यो यत् ।” ५ । १ । २ । इति यत् । युगमर्हतीति वा । दण्डादित्वात् यत् । यद्वा, युज्यत इति । युज् + “युग्यं च पत्त्रे ।” ३ । १ । १२१ । इति क्यबन्तो निपातितः ।) वाहनम् । यानम् इत्यमरः । २ । ८ । ५८ ॥ (यथा, महाभारते । ३ । ५९ । ९ । “हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् । आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥” यथा च मनौ । ८ । २९३ । “यत्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्य तु । तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ॥” वाच्यलिङ्गेऽपि दृश्यते । यथा, “युग्यो गौः । युग्योऽश्वः । युग्यो हस्ती ।” इति काशिका । ३ । १ । १२१ ॥)

"https://sa.wiktionary.org/w/index.php?title=युग्यम्&oldid=160028" इत्यस्माद् प्रतिप्राप्तम्