सामग्री पर जाएँ

युञ्जानः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

युञ्जानः, पुं, (युज् + शानच् ।) सारथिः । विप्रः । इति मेदिनी । ने, ११३ ॥ भावनासहकारेण सर्व्वज्ञः । यथा, -- “योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः । युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः ॥” इति भाषापरिच्छेदे । ६५ ॥ “युक्तस्यति । योगाभ्यासावगत्या वशीकृतसमाधि- समासादितो विविधसिद्धयुक्त इत्युच्यते अयमेव विशिष्टयोगवत्त्वात् युक्त इत्युच्यते । सर्व्वदेति चिन्तासहकारं विनेत्यर्थः । भानं सर्व्वविषयाणां प्रत्यक्षम् । अपरो युञ्जानः । विषयव्यावृत्त्या मानससमाधिस्थः । अयञ्च युञ्जान उच्यते । चिन्ता ध्यानं तदेव कारणं तत्सहकारात् स्थूलसूक्ष्मव्यवहितविप्रकृष्टान् अर्थान् मनः प्रत्यक्षीकरोतीत्यर्थः ।” इति सिद्धान्तमुक्तावली ॥

"https://sa.wiktionary.org/w/index.php?title=युञ्जानः&oldid=160039" इत्यस्माद् प्रतिप्राप्तम्