सामग्री पर जाएँ

युध्मः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

युध्मः, पुं, (युध्यते इति युध्यते येनेति वा । युध् + “इषियुधीन्धिदसिश्याधूसूभ्यो मक् ।” उणा० १ । १४४ । इति मक् । संग्रामः । धनुः । इति मेदिनी ॥ वाणः । इत्युणादिकोषः ॥ योद्धा । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, ऋग्वेदे । १ । ५५ । ५ । “स इन्महानि समिथानि मज्मना कृणोति युघ्म ओजसा जनेभ्यः ॥” “युध्मः योद्धा ।” इति तद्भाष्ये सायणः ॥) शेष- संग्रामः । शरभः । इति संक्षिप्तसारोणादिवृत्तिः ॥

"https://sa.wiktionary.org/w/index.php?title=युध्मः&oldid=160064" इत्यस्माद् प्रतिप्राप्तम्