सामग्री पर जाएँ

युवनाश्वः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

युवनाश्वः, पुं, सूर्य्यवंशीयराजविशेषः । स च गौरीगर्भे प्रसेनजितो जातः मान्धातृपिता च । यथा, -- “तस्याः प्रसेनजिज्जज्ञे लेभे भार्य्या पतिव्रता । गौरी नामाभिशप्ता सा नदीभूता तरङ्गिणी । तस्यां प्रसेनजिज्जज्ञे युवनाश्वं महीपतिम् ॥ यावत् सूर्य्य उदेति स्म यावच्च प्रतितिष्ठति । सर्व्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥” इति वह्निपुराणे सगरोपाख्यानाध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=युवनाश्वः&oldid=160081" इत्यस्माद् प्रतिप्राप्तम्