युवराजः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
युवराजः, पुं, भाविबुद्धविशेषः । तत्पर्य्यायः । मैत्रेयः २ अजितः ३ । इति त्रिकाण्डशेषः ॥ राजपुत्त्रः । तत्पर्य्यायः । कुमारः २ भर्त्तृ- दारकः ३ । इत्यमरः । १ । ७ । १२ ॥ युवा बालो राजा यूनां वा राजा युवराजः । सख्य- होराज्ञ इति षः । कुमारयति कुमारः । स्यात् कुमार कुमाल त् क केलौ अन् । भर्त्तुर्दारकः पुत्त्रः भर्त्ता चासौ दारकश्चेति वा भर्त्तृदारकः । दारको भेदके शिशाविति निगमः । इति भरतः ॥ (यथा, महाभारते । १ । ७३ । १६ । “मयि जायेत यः पुत्त्रः स भवेत्त्वदनन्तरम् । युवराजो महाराज ! सत्यमेतद्ब्रवीमि ते ॥”)
