यूथपः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यूथपः, पुं, (यूथं पातीति । पा + कः ।) अरण्य- हस्तिनां प्रधानम् । इति शब्दरत्नावली ॥ (यथा, श्रीमद्भागवते । ९ । १५ । २८ । “घोरमादाय परशुं सतूणं वर्म्मकार्म्मुकम् । अन्वधावत दुर्म्मर्षो मृगेन्द्र इव यूथपम् ॥” प्रधानमात्रे च । यथा, महाभारते । १ । १८ । ५ । “राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते । चरन् मैथुनधर्म्मस्थं ददर्श मृगयूथपम् ॥”)
