सामग्री पर जाएँ

योगक्षेमम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योगक्षेमम्, क्ली, (योगश्च क्षेमश्च तयोः समाहारः ।) अनागतानयनागतरक्षणे । यथा मनुः । “दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥” बृहदङ्गिराः । “अनागतस्य चानेता आगतस्य च रक्षकः । रात्रावपि यदान्योऽस्ति तदा स्वामी न दोष- भाक् ॥” इति प्रायश्चित्ततत्त्वम् ॥ (तथा च गीतायाम् । ९ । २२ । “अनन्याश्चिन्तयन्तो मां ये जनाः पर्य्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥” “योगोऽप्राप्तस्य प्रापणं क्षेमस्तद्रक्षणं तदुभयं वहामि ।” इति शङ्कराचार्य्यः ॥ “योगं धनादि- लाभं क्षेमञ्च तत्पालनं मोक्षं वा तैरप्रार्थित- मपि अहमेव वहामि प्रापयामि ।” इति श्रीधरस्वामी ॥ योगश्च क्षेमश्च इतीतरेतरद्वन्द्बे पुंलिङ्गद्बिवचनप्रयोगो भवति ।) यथा, -- “योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततः । मृगस्यानुपदी रामो जगाम गजविक्रमः ॥” इति भट्टिकाव्ये । ५ । ५० ॥ “फलपुष्पादेरलब्धस्य साधनं योगः शरीरादे- र्लब्धस्य पालनं क्षेमः ।” इति तट्टीकायां भरतः ॥ “योगक्षेमौ शरीरस्थितिपालने ।” इति तत्रैव जयमङ्गलः ॥

"https://sa.wiktionary.org/w/index.php?title=योगक्षेमम्&oldid=160136" इत्यस्माद् प्रतिप्राप्तम्