सामग्री पर जाएँ

योगजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योगजः, पुं, (योगेभ्यो जायते इति । जन् + डः ।) अलौकिकसन्निकर्षविशेषः । स च युक्तयुञ्जान- भेदतो द्विविधः । यथा, -- “अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः । सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा ॥ आसत्तिराश्रयाणान्तु सामान्यज्ञानमिष्यते । तदिन्द्रियजतद्धर्म्मबोधसामग्र्यपेक्ष्यते ॥ विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः । योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः ॥ युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः ॥” इति भाषापरिच्छेदे । ६३ -- ६६ ॥ * ॥ “योगज इति । योगाभ्यासजनितधर्म्मविशेषः । श्रुतिपुराणादिप्रमाणक इत्यर्थः । युक्तेति । युक्तयुञ्जानरूपयोगिद्वैविध्यात् धर्म्मस्य द्बैविध्य- मिति भावः । युक्तस्येति । योगाभ्यासावगत्या वशीकृत-समाधि-समासादित-विविधसिद्धियुक्त इत्युच्यते । अयमेव विशेष्टयोगवत्त्वात् युक्त इत्यु- च्यते । सर्व्वदेतिं । चिन्तासहकारं विनेत्यर्थः । भानं सर्व्वविषयाणां प्रत्यक्षम् । अपरो युञ्जानः । विषयव्यावृत्त्या मानससमाधिस्थः अयञ्च युञ्जान उच्यते । चिन्ता ध्यानं तदेव कारणं तत्सहकारात् स्थूलसूक्ष्मव्यवहितविप्रकृष्टा- नर्थान् मनः प्रत्यक्षीकरोतीत्यर्थः ।” इति सिद्धान्तमुक्तावली ॥

"https://sa.wiktionary.org/w/index.php?title=योगजः&oldid=160141" इत्यस्माद् प्रतिप्राप्तम्