योगपट्ट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
योगपट्टम्, क्ली, (योगस्य पट्टं वसनविशेषः । योगार्थं पट्टमिति वा ।) यद्बस्त्रेण पृष्ठजानुबन्धनं भवति तत् । यथा, -- “पादुके योगपट्टञ्च तर्ज्जन्यां रौप्यधारणम् । न जीवत्पितृकः कुर्य्यात् ज्येष्ठे भ्रातरि जीवति ॥” तल्लक्षणं यथा, -- “पृष्ठजान्वोः समायोगे वस्त्रं वलयवद्दृढम् । परिवेष्ट्य यदूर्द्ध्वज्ञुस्तिष्ठेत्तद्योगपट्टकम् ॥” इति पाद्मे कार्त्तिकर्माहात्म्ये २ अध्यायः ॥ (योगपदकम् । उत्तरीयचिशेषः । यथा, याज्ञ- वल्क्यः । “अभावे घौतवस्त्राणां शाणक्षौमाविकानि च । कुतपो योगपट्टं वा द्विर्व्वासा येन वा भवेत् ॥”) इत्याह्निकतत्त्वम् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
योगपट्ट¦ न॰ योगाभ्यासार्थं पट्टम्। योगिधार्य्ये पट्ट-सूत्रभेदे योगपदकमप्यत्र।
“त्रिविधं योगपदकमाद्यंव्याघ्राजिनोद्भवम्। द्वितीयं मृगचर्माढ्यं तृतीयं तन्तु-निर्मितम्। चतुर्मात्रप्रविस्तारं दैर्घ्येण यज्ञसूत्रवत्” सिद्धान्तशेखरः। चतुर्मात्रं चतुरङ्गलमात्रम् वीरमि॰। [Page4781-a+ 38]
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
योगपट्ट¦ m. (-ट्टः) A cloth drawn round the lower extremities of the asce- tic as he spuats to perform religious abstraction. E. योग a religious exercise, पट्ट cloth.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
योगपट्ट/ योग--पट्ट ( Hcat. PadmaP. )( Hcar. PadmaP. ) m. the cloth thrown over the back and knees of a devotee during meditation.