योगपीठम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
योगपीठम्, क्ली, (योगस्य योगार्थं वा पीठमास- नम् ।) देवानां योगासनम् । यथा, -- “मण्डलं योगपीठन्तु पद्मं पद्मे विचिन्तयेत् । शावादीन्यासनानीह चत्वार्य्यपि विचिन्तयेत् ॥ योगपीठं पृथग्ध्यात्वा मण्डलेन सहैकताम् । पुनर्ध्यात्वा ततः पश्चात् पूजयेदासनं ततः ॥ ध्यानेन योगपीठस्य ध्यात्वा यद्दीयते जलम् । नैवेद्यपुष्पधूपादि तत् स्वयञ्चोपतिष्ठते ॥ सर्व्वे देवाः सगन्धर्व्वाः सचराचरगुह्यकाः । चिन्तिताः पूजिताश्च स्युर्य्योगपीठस्य पूजने ॥” इति कालिकापुराणे ५६ अध्यायः ॥
