योगरूढः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
योगरूढः, पुं, (योगार्थप्रतिपादको रूढः ।) योगार्थसहभावेन रूढ्यर्थबोधकशब्दः । यथा, “योगरूढाश्च रूढाश्च यौगिकाश्चेति ते त्रिधा ॥” “ते शब्दाः पुनस्त्रिधा भवन्ति । योगरूढाः पङ्कजादयः । पङ्कजनिडप्रत्ययैः पङ्कजनिकर्त्रभि- धाय केन योगेनापि पदार्थ एव प्रतिपाद्यते न कुमुमाद्यर्थ इति । योगार्थपुरस्कारेणापि रूढ्यर्थ एवेति योगरूढः । एवं ईश्वरसङ्केत- महिम्ना झटिति पद्मस्यैव स्मृतेः ।” इत्यलङ्कार- कौस्तुभे २ किरणः ॥ (“योगरूढं नाम लक्षयति । ‘स्वान्तर्निविष्टशब्दार्थस्वार्थयोर्बोधकृम्मिथः । योगरूढं न यत्रैकं विनान्यस्यास्ति शाब्दधीः ॥’ यन्नाम स्वावयववृत्तिलभ्यार्थेन ममं स्वार्थस्या- न्वयबोधकृत् तन्नाम योगरूढं यथा पङ्कजकृष्ण- सर्पाधर्म्मादि तद्धि शान्तर्निविष्टानां पङ्कादि- शब्दानां वृत्तिलभ्येन पङ्कजनिकर्त्रादिना समं स्वशक्यस्य पद्मादेरन्वयानुभावकं पङ्कजमित्या- दितः पङ्कजनिकर्तृ पद्ममित्यनुभवस्य सर्व्वसिद्ध- त्वात् । इयांस्तु विशेषो यद्रूढमपि मण्डपरथ- कारादिपदं योगार्थविनाकृतस्य रूढ्यर्थस्येव रूढ्यर्थविनाकृतस्यापि योगार्थस्य बोधकं मण्डपे शेते इत्यादौ योगार्थस्य मण्डपानकर्त्रादेरिव मण्डपं भोजयेदित्यादौ समुदितार्थस्य गृहादेर- योग्यत्वेनान्वयाबोधात् । योगरूढन्तु पङ्कजादि- पदमवयववृत्त्या रूढ्यर्थमेव समुदायशक्त्या चावयवलभ्यार्थमेवानुभावयति नत्वन्यं व्युत्पत्ति- वैचित्र्यात्तथैव साकाङ्क्षत्वात् । अतएव पङ्कजं कुनुदमित्यत्र पङ्कजनिकर्तृत्वेन भूमौ पङ्कज- मुत्पन्नमित्यादौ च पद्मत्वेन पङ्कजपदस्य लक्षण- यैव कुमुदस्थलपद्मयोर्बोध इति वार्त्तिकम् । ननु पुष्पं पङ्कजेत्यादौ पङ्कजादेरन्वयस्याबोधात् बोधाच्च पङ्कजपुष्पमित्यादौ निर्विभक्तिकेन पङ्क- जादिपदेनोपस्थाप्यार्थस्यान्वयधीसामान्यं प्रत्येव तादृशपङ्कजादिपदोत्तरशब्दोपस्थाप्यत्वं तन्त्रम् एवं पुष्पं पङ्कजमित्यादौ अन्वयबोधदर्शनात्तदनु- रोधेन सविभक्तिकपङ्कजादिपदोपस्थाप्यार्थान्वय- बोधं प्रति स्वसमानविभक्तिकपदोपस्थाप्यत्वञ्च अतस्तदुपस्थापितस्य पङ्कजातादेः कथं पदा- न्तरानुपस्थापितं पद्मादावन्वय इति चेदपङ्कज- वृत्तिः सत्तेत्यादौ च व्यभिचारादुक्तव्युत्पत्तेः ‘स्खलदक्षरसंशीभि तरुण्यामुखपङ्कजम् ।’ इत्यादौ सङ्गोचेनेनि गृहाण । नच धेनुपदस्य धानकर्म्मत्वविशिष्टायां गवीवपङ्कजादिपदस्यापि पङ्कजातत्वादिविशिष्टपद्मादौ रूढिरेवास्तु नतु योगरूढिरिति साम्प्रतं अन्यत्र कॢप्तशक्तिभ्यः पङ्कजन्यादिपदेभ्य एवाकाङ्क्षादिसाचिव्येन पङ्कज- निकर्तृ त्वादेर्लाभसम्भवे तद्बिशिष्टस्य पद्मस्य गुरोः समुदायाशक्यत्वादनन्यलभ्यस्यैव शब्दार्थ- त्वात् । यद्यपि कर्तृवाचकडप्रत्यये एव पद्मत्व- विशिष्टस्य लक्षणया लाभसम्भवान्न पङ्कज- भागस्य तत्र शक्तिरुचिता प्रकारान्तरालभ्यस्यैव शब्दशक्यत्वमित्युक्तत्वात् कृतिवर्त्तमानत्वयोरि- वैकपदार्थयोरपि कर्तृपद्मयोर्मिथोऽन्वयस्य सम्भवित्वात् तथाप्यवयवानां शक्तेरग्रहे ग्रहेऽपि वा पद्मादौ तदर्थस्यान्वयधीविरोधिधीदशायां पङ्कजमस्तीत्यादितः पद्ममस्तीत्याद्यनुभवार्थ- मवश्यं पद्मत्वादिविशिष्टे पङ्कजादिभागस्य रूढिरुपेया इतरथा प्रकृत्यर्थावच्छिन्नस्यैव प्रत्य- यार्थस्य पदार्थान्तरेणान्वयस्य व्युत्पन्नतया डप्र त्ययोपस्थापितस्यापि पद्मस्यास्तित्वादिना सहा- न्वयानुपपत्तेः । अतएव पङ्कजादिपदागृहीत- शक्तिकस्य पुंसः पङ्कजमस्तीत्यादितो जात्वपि कर्त्तास्तीत्याकारको नान्वयबोधः प्रत्ययमात्रोप- स्थाप्यस्य कर्त्तुरन्यत्रान्वये निराकाङ्क्षत्वादिति वक्ष्यते । किञ्चैवमेकाक्षरकोषावधृतशक्तिकानां कखादिप्रत्येकवर्णानामेव निरूढलक्षणया तत्त- दर्थानुभावकत्वसम्भवाद्बकनखादिसमुदायस्यापि तत्तदर्थे शक्तिर्व्विलीयेत कादिप्रत्येकवर्णस्य शक्ति- ग्रहं विनापि वकादिशब्दाद्वकादेरनुभवार्थं तत्र समुदाये शक्तिरिति तु प्रकृतेऽपि समानं डादि- प्रत्ययमात्रस्य पद्मादौ वृत्तिमत्त्वग्रहेऽपि पङ्क- जादिसमुदायात् पद्मादेरनुभवस्य सर्व्वसिद्ध- त्वात् । नचैवं चित्रगुरित्यादावपि चित्रगोस्वा- म्यादौ समुदायस्य शक्तिप्रसङ्गः समासत्वस्या- विशिष्टत्वादिति वाच्यम् अगृहीतावयववृत्तिकस्य पुंसस्ततोऽर्थानधिगमेनावयवानां कृत्तेरवश्या- पेक्षायां तेषामेव तथाविधार्थबोधकत्वौचित्यस्य वक्ष्यमाणत्वादिति ।
