सामग्री पर जाएँ

योगसारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योगसारः, पुं, (योगस्यौषधप्रयोगस्य सारः ।) सर्व्वरोगहरणोपायः । यथा, -- धन्वन्तरिरुवाच । “सर्व्वरोगहरं सिद्ध्वं योगसारं वदाम्यहम् । शृणु सुश्रुत ! संक्षेपात् प्राणिनां जीवहेतवे ॥ निमेषादिर्हविःकालश्चिन्ताभिः षड्विधो भवेत् ॥ कषायकटुतिक्ताम्लरूक्षाहारादभोजनात् । चिन्ताव्यवायव्यायामभयशोकप्रजागरात् ॥ उच्चैर्भाष्यतिभावाच्च कर्म्मयोगातिकर्षणात् । वायुः कुप्यति पर्य्यन्ते जीर्णान्ने दिनसंक्षये ॥ उष्णाम्ललवणक्षारकटुकाजीर्णभोजनात् । तीक्ष्णातपाग्निसन्तापमद्यक्रोधनिषेवणात् ॥ विदाहकाले भुक्तस्य मध्याह्ने जलदागमे । ग्रीष्मकालेऽर्द्धरात्रेऽपि पित्तं कुप्यति देहिनः ॥ स्वाद्वम्ललवणस्निग्धगुरुशीतातिभोजनात् । नवान्नपिच्छलानूपमाषाभिस्यन्दिसेवनात् ॥ अव्यवायो दिवास्वप्नशय्यासनसुखादिभिः । कफः प्रदोषे भुक्ते च वसन्ते च प्रकुप्यति ॥ पारुष्यमूलसङ्कोचतोदविष्टम्भभोजनात् । खरता सुप्तता हर्षरौक्षस्तम्भनशोषणम् ॥ श्यावत्वमङ्गविश्लेषवलनाशामवर्त्तनम् । वायोर्लिङ्गानि तैर्युक्तं रोगं वातात्मकं वदेत् ॥ दाहोष्मपादसक्लेदकोपरागपरिस्रवाः । कट्वम्लशववैगन्ध्यस्वेदमूर्च्छातितृट्श्रमाः ॥ हारिद्रं हरितत्वञ्च पित्तलिङ्गानि तैर्लयः । स्नेहोपदेहमाधुर्य्यचिरकारित्ववन्धनम् ॥ स्तैमित्यदृष्टिसं घातशोथशीतत्वगौरवम् । कण्डुनिद्राभियोगश्च लक्षणं कक्षसम्भवम् ॥ हेतुलक्षणसंसर्गाद्बिद्याद्ब्याधिं द्विदोषजम् । सर्व्वहेतुसमुत्पन्नं त्रिलिङ्ग सान्निपातिकम् ॥ दोषधातुमलाधारो देहिनां देह उच्यते । तेषां समत्वमारोग्यं क्षयवृद्धी विपर्य्ययः ॥ रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः । वातपित्तकफा दोषा विण्मूत्रद्या मलाः स्मृताः । वायुः शीतो लघुः सूक्ष्मः खरो रूक्षोऽस्थिरो बली । पित्तमम्लकटूष्णञ्च पक्त्योजोरोमकारणम् ॥ मधुरो लवणः स्निग्धो गुरुः श्लेष्मातिपिच्छिलः । गुदश्रोण्याश्रयो वायुः पिक्तं पक्वाशयस्थितम् ॥ कफस्यामाशयं स्थानं कण्ठोरुमूर्द्धसन्धयः । कटुतिक्तकषायाश्च कफपित्तादिसंश्रयः । कट्वम्ललवणाः पित्तं स्वादूष्णलवणाः कफम् ॥ एत एव विपर्य्यस्ताः समायैषां प्रयोजिताः । भवन्ति रोगिणां शान्त्यै सुस्थानां सुखहेतवः ॥” इत्यादि गारुडे १७२ अध्यायः ॥ (योगस्य सारः । शिवस्तवात्मको ग्रन्थविशेषः ॥)

"https://sa.wiktionary.org/w/index.php?title=योगसारः&oldid=160164" इत्यस्माद् प्रतिप्राप्तम्