सामग्री पर जाएँ

योगारूढः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योगारूढः, त्रि, (योगं विषयनिवृत्तिं यमादिकं वा आरूढः ।) इन्द्रियभोग्येषु शब्दादिषु तत्साधन- कर्म्मसु चानासक्तः । तस्य लक्षणं यथा, -- “यदा हि नेन्द्रियार्थेषु न कर्म्मस्वनुषज्जते । सर्व्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥” इति श्रीभगवद्गीतायाम् । ६ । ४ ॥ * ॥ “कीदृशोऽयं योगारूढो यस्य शमः कारण- मुच्यते इत्यत्राह यदेति । इन्द्रियार्थेषु इन्द्रिय- भोग्येषु शब्दादिषु तत्साधनेषु च कर्म्मसु यदा नानुषज्जते आसक्तिं न करोति । तत्र हेतुः आसक्तिमूलभूतान् सर्व्वान् भोगविषयान् कर्म्मविषयांश्च सङ्कल्पान् संन्यसितुं त्यक्तुं शीलं यस्य सः । तदा योगारूढ उच्यते ।” इति तट्टी- कायां श्रीधरस्वामी ॥

"https://sa.wiktionary.org/w/index.php?title=योगारूढः&oldid=160170" इत्यस्माद् प्रतिप्राप्तम्