सामग्री पर जाएँ

योगेश्वरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योगेश्वरः, पुं, (योगानां ईश्वरः ।) श्रीकृष्णः । यथा, -- “ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्म्मवर्म्मणि । स्वां काष्ठामधुनोपेते धर्म्मः कं शरणं गतः ॥” इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥ (शिवः । यथा, महाभारते । १३ । १४ । ३२३ । “नमस्ते भगवन् देव ! नमस्ते भक्तवत्सल ! । योगेश्वर ! नमस्तेऽस्तु नमस्ते विश्वसम्भव ! ॥” देवहोत्रतनयः । यथा, भागवते । ८ । १३ । ३२ । “देवहोत्रस्य तनय उपहर्त्ता दिवस्पतेः । योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥”

"https://sa.wiktionary.org/w/index.php?title=योगेश्वरः&oldid=160184" इत्यस्माद् प्रतिप्राप्तम्