योग्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
योग्यः, त्रि, (योगाय प्रभवति । योग् + “योगाद्- यच्च ।” ५ । १ । १०२ । इति यत् ।) प्रवीणः । योगार्हः । (यथा, रघुः । ६ । २९ । “कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि ! तयोस्तृतीया ॥”) उपायी । शक्तः । इति मेदिनी हेमचन्द्रश्च ॥ (यथा, मार्कण्डेये । ७१ । १० । “अपत्नीको नरो भूप न योग्यो निजकर्म्म- णाम् ॥” योजनसाधनभूतः । यथा, ऋग्वेदे । ३ । ६ । ६ । “ऋतस्य वा केशिना योग्याभिः ।” “योग्याभिर्योजनसाधनभूताभी रज्जुभिः ।” इति सायणः ॥ शकटादियोजनीयः । यथा, शत- पथब्राह्मणे । १ । ३ । १ । १३ । “योक्त्रण हि योग्यं युञ्जन्त्यस्ति वै पत्न्या अमेध्यं यदवाचीनम् ।” “योग्यं योजनीयमनडुदश्वादिकम् ।” इति तद्भाष्यम् ॥) पुष्यनक्षत्रे, पुं । इति मेदिनी । ये, ४९ ॥
