सामग्री पर जाएँ

योग्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योग्या, स्त्री, (योग्य + टाप् ।) अभ्यासः । (यथा, रघुः । ८ । १९ । “अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥” “अपरो रघुः प्रणिधानयोग्यया समाध्य- भ्यासेन ।” इति मल्लिनाथः ॥) अर्कयोषित् । इति मेदिनी । ये, ४९ ॥ शस्त्रा भ्यासः । तत्- पर्य्यायः । खुरली २ श्रमः ३ अभ्यासः ४ । तद्भूः खलूरिका । इति हेमचन्द्रः । ३ । ४५२ ॥ (यथा, सुश्रुते सूत्रस्थाने ९ अध्याये । “अथातो योग्यासूत्रीयमध्यायं व्याख्यास्यामः । अधिगतसर्व्वशास्त्रार्थमपि शिष्यं योग्याङ्कार- येत् । छेद्यादिषु स्नेहादिषु च कर्म्मपथमुप- दिशेत् । सुबहुश्रुतोऽप्यकृतयोग्यः कर्म्मस्वयोग्यो भवति । तत्र पुष्पफलालावूकालिन्दकत्रपुषै- र्व्वारुककर्कारुकप्रभृतिषु छेद्यविशेषान् दर्शये- दुत्कर्त्तनपरिकर्त्तनानि चोपदिशेत् । दृतिवस्ति- प्रसेकप्रभृतिषूदकपङ्कपूर्णेषु भेद्ययोग्याम् । सरोम्नि चर्म्मण्यातते लेख्यस्य । मृतपशुसिरा- सूत्पलनालेषु च वेध्यस्य । घुणोपहतकाष्ठवेणु- नलनालीशुष्कालावुमुखेव्वे ष्यस्य । पनसविम्बी- विल्वफलमज्जमृतपशुदन्तेष्वाहार्य्यस्य । मधु- च्छिष्टोपलिप्ते शाल्मलीफलके विस्राव्यस्य । सूक्ष्म- घनवस्त्रान्तयोर्मृदुचर्म्मान्तयोश्च सीव्यस्य । पुस्त- मयपुरुषाङ्गप्रत्यङ्गविशेषेषु बन्धयोग्याम् । मृदु- मांसपेशीषूत्पलनालेषु च कर्णसन्धिबन्धयोग्याम् । मृदुषु मांसखण्डेष्वग्निक्षारयोग्याम् । उदक- पूर्णघटपार्श्वस्रोतस्यलावूमुखादिषु च नेत्रप्रणि- धानवस्तिव्रणवस्तिपीडनयोग्यामिति । भवत- श्चात्र । एवमादिषु मेधावी योग्यार्हेषु यथाविधि । द्रव्येषु योग्यां कुर्व्वाणो न प्रमुह्यति कर्म्मसु ॥ तस्मात् कौशलमन्विच्छन् शस्त्ररक्षाग्निकर्म्मसु । यस्य यत्रेह साधर्म्म्यं तत्र योग्यां समा- चरेत् ॥” (युवती । यथा, -- “निदाघशरदोर्बाला प्रौडा वर्षावसन्तयोः । हेमन्ते शिशिरे योग्या न वृद्धा क्वापि शस्यते ॥” योग्या युवती । इति राजवल्लभः ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योग्या¦ स्त्री योगमर्हति यत् युज--ण्यत् वा कुत्वम्।

१ अभ्यासेसूर्य्यस्त्रियाञ्च मेदि॰

३ शास्त्राभ्यासे हेमच॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योग्या f. preparation , contrivance RV.

"https://sa.wiktionary.org/w/index.php?title=योग्या&oldid=386469" इत्यस्माद् प्रतिप्राप्तम्