सामग्री पर जाएँ

योटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योटकः, पुं, योटनम् । मेलनमिति यावत् । विवाहे राशियोटक-ग्रहयोटक-नक्षत्रयोटक-गणयोटक- वर्णयोटक-योनियोटक-वर्गयोटकभेदेन सप्तविधो योटकः । तत्र राशियोटके षडष्टकनवपञ्च- मद्विद्वादशविषमसप्तकयोगा निषिद्धाः । तदाह श्रीपतिसंहितायाम् । “षडष्टकं त्रिकोणञ्च द्बिद्बादशकमेव च । परस्परं जन्मराशेस्त्यक्त्वा कन्याकुमारयोः ॥ षडष्टके भवेद्दोषो वैधव्यं मृत्युरेव वा । त्रिकोणे पुत्त्रहानिः स्यात् धनहानिर्धनव्यये ॥ पुरुषस्याष्टमे कन्या कन्यायाः षष्ठके पुमान् । शुभं षडष्टकं ज्ञेयं नोद्बाहे दूषणं भवेत् ॥ नवपञ्चमे । पुंसो गृहात् सुतगृहे सुतहा च कन्या धर्म्मे स्थिता सुतवती पतिवल्लभा च । द्बिद्वादशे धनगृहे धनहा च कन्या रिप्फे स्थिता धनवती पतिवल्लभा च ॥ योटके सप्तके मेषतुलौ युग्महयौ तथा । सिंहघटौ सदा वर्ज्यौ मृतिस्तत्राब्रवीच्छिवः ॥ राजयोटकमाह दीपिकायाम् । एकराशौ च दम्पत्योः शुभं स्यात् समसप्तके । चतुर्थदशके चैव तृतीयैकादशे तथा ॥” इति राशियोटकविचारः ॥ * ॥ ग्रहयोटके ग्रहशत्रुयोगो निषिद्धः । कन्यावर- राश्यधिपग्रहयोः शत्रुत्वे ग्रहशत्रुयोगः । तत्र विवाहे रोगादिः फलम् । तदाह गर्गः । मरणं भावविरोधे ग्रहरिपुभावे चाचिरेण रोगादिः । इति ग्रहयोटकविचारः ॥ * ॥ अन्ये योटकाः प्रपञ्चभयान्न लिखिताः । इति ज्योतिषम् ॥ ग्रन्थान्तरे जोटकशब्दश्चवर्गतृतीयादिश्च ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योटक¦ त्रि॰ युट--ण्वुल्।

१ मेलके विवाहमेलकश्च उप-यमशब्दे

१२

४८ पृ॰ दृश्यः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योटकः [yōṭakḥ], A combination of stars.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योटक m. a combination of stars etc. , constellation L.

"https://sa.wiktionary.org/w/index.php?title=योटक&oldid=386572" इत्यस्माद् प्रतिप्राप्तम्