सामग्री पर जाएँ

योनिकन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योनिकन्दः, पुं, (योनौ कन्द इव ।) योनिरोग- विशेषः । तस्य निदानं यथा, -- “दिवास्वप्नादतिक्रोधाद्व्यायामादतिमैथुनात् । क्षताच्च नखदन्ताद्यैर्व्वाताद्याः कुपिता यथा ॥ वाताद्याः कुपिता यथा । यथा निदानकुपिता वाताद्याः । रूपमाह । ‘पूयशोणितसङ्काशं लकुचाकृतिसन्निभम् । जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः ॥’ लकुचाकृतिसन्निभं लकुचाकाराकारम् । गुडकमत्र विशेष्यं बोद्धव्यम् ॥ * ॥ वातजादि- भेदेन रूपभेदमाह । ‘रूक्षं विघर्णं स्फुटितं वातिकं तं विनिर्द्दिशेत् । दाहरागज्वरयुतं विद्यात् पित्तात्मकन्तु तत् ॥ तिलपुष्पप्रतीकाशं कण्डूयन्तं कफात्मकम् । सर्व्वलिङ्गसमायुक्तं सान्निपातात्मकं भवेत् ॥’ अस्य चिकित्सा । योनिशब्दे द्रष्टव्या ।” इति भावप्रकांशः ॥

"https://sa.wiktionary.org/w/index.php?title=योनिकन्द&oldid=160224" इत्यस्माद् प्रतिप्राप्तम्