योनिजम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
योनिजम्, त्रि, (योनेर्ज्जायते इति । जन् + डः ।) योनिनिःसृतशरीरादिकम् । यथा, -- “सा च त्रिधा भवेद्देह इन्द्रियं विषयस्तथा । योनिजादिर्भवेद्देह इन्द्रियं घ्राणलक्षणम् ॥” इति भाषापरिच्छेदः ॥ “योनिजादीति । योनिजमयोनिजञ्चेत्यर्थः । योनिजमपि जरायुजमण्डजञ्च । जरायुजं मानु- षादीनां अण्डजं सर्पादीनाम् । अयोनिजं स्वेदजोद्भिदादिकम् । स्वेदजाः कृमिदंशाद्याः । उद्भिदस्तरुगुल्माद्याः । नारकिणां शरीरमप्य- योनिजम् ।” इति सिद्धान्तमुक्तावली ॥
