सामग्री पर जाएँ

योनिमुद्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योनिमुद्रा, स्त्री, (योन्याकृतिर्मुद्रा हस्तभङ्गी ।) भगवत्याः पूजायां प्रदर्शनीयाङ्गुलीरचितयोन्या- कारमुद्राविशेषः । यथा, -- “पञ्च प्रणामान् कृत्वाथ ओ~ ह्री~ श्रीमितिंमन्त्रकैः । अन्येषां पुरतश्चैव अधिकाल्पा यथेच्छया । योनिमुद्रां ततः पश्चात् दर्शयित्वा विसर्ज्जयेत् ॥ द्वौ पाणी प्रसृतीकृत्य कृत्वा तूत्तानमञ्जलिम् । अङ्गुष्ठाग्रद्बयं न्यस्य कनिष्ठाग्रद्बयोस्ततः ॥ अनामिकायां वामस्य तत्कनिष्ठां पुरो न्यसेत् । दक्षिणस्यानामिकायां कनिष्ठां दक्षिणस्य च ॥ अनामिकायाः पृष्ठे तु मध्यमे विनियोजयेत् । द्बे तर्ज्जन्यौ कनिष्ठाग्रे तदग्रेणैव योजयेत् ॥ योनिमुद्रा समाख्याता देव्याः प्रीतिकरी मता ॥ त्रिवारं दर्शयेदग्रे मूलमन्त्रेण साधकः । तां मुद्रां शिरसि न्यस्य मण्डलं विन्यसेत्ततः ॥” इति कालिकापुराणे ५३ अध्यायः ॥ * ॥ पारिभाषिकयोनिमुद्र यथा । मन्त्रमुक्ता- वल्याम् । “उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः । षट्चक्रं चिन्तयेद्देवि ! प्राणायामपुरःसरम् ॥ चतुर्द्दलं स्यादाधारं स्वाधिष्ठानन्तु षड्दलम् । नाभौ दशदलं पद्मं सूर्य्यसंख्यदलं हृदि ॥ कण्ठे स्यात् षोडशदलं भ्रूमध्ये द्बिदलन्तथा । सहस्रदलमाख्यातं ब्रह्मरन्ध्रे महापथे ॥ आधारे कन्दमध्यस्थं त्रिकोणमतिसुन्दरम् । त्रिकोणमध्ये देवेशि ! कामबीजं सुलक्षणम् ॥ कामबीजोद्भवं तत्र स्वयम्भुलिङ्गमुत्तमम् । तस्योपरि पुनर्ध्यायेत् चित्कलां हंसमाश्रिताम् ॥ ध्यायेत् कुण्डलिनीं देवीं स्वयम्भुलिङ्गवेष्टिताम् । चित्कलया कुण्डलिनीं तेजोरूपां जगन्मयीम् ॥ आधारादीनि पद्मानि भित्त्वा तेजःस्वरू- पिणीम् । हंसेन मनुना देवीं ब्रह्मरन्ध्रं नयेत् सुधीः ॥ सदाशिवेन देवेशि ! क्षणमात्रं रमेत् प्रिये ! । अमृतं जायते देवि ! तत्क्षणात् परमेश्वरि ! ॥ तदुद्भवामृतं देवि ! लाक्षारससमोपमम् । तेनामृतेन देवेशि ! तर्पयेत् परदेवताम् ॥ षट्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया । आनयेत्तेन मार्गेण मूलाधारं पुनः सुधीः ॥ ततस्तु परमेशानि ! अक्षमालां विचिन्तयेत् । चित्रिणी विशतन्त्वाभा ब्रह्मनाडीगतान्तरा ॥ तया संग्रथिता ध्येया साक्षाज्जाग्रत्स्वरूपिणी । अनुलोमविलोमेन मन्त्रवर्णविभेदतः ॥ मन्त्रेणान्तरितान् वर्णान् वर्णेनान्तरितं मनुम् । कुर्य्याद्वर्णमयीं मालां सर्व्वमन्त्रप्रकाशिनीम् ॥ चरमार्णं मेरुरूपं लङ्घनं नैव कारयेत् । सबिन्दुं वर्णमुच्चार्य्य पश्चान्मन्त्रं जपेत् सुधीः ॥ अष्टोत्तरशतं मूलमन्त्रं ज्ञानेन संजपेत् । वर्गाणामष्टवर्गेण अष्टवारं जपेत् सुधीः ॥ अ क च ट त प य शा इत्येवञ्चाष्टवर्गकाः । योनिमुद्रा महेशानि ! तव स्नेहात् प्रकाशिता ॥ मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः । शतकोटिजपेनापि तस्य सिद्धिर्न जायते ॥” इति शाक्तानन्दतरङ्गिणी ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योनिमुद्रा¦ स्त्री योन्याकारा मुद्रा। तन्त्रोक्ते देवताविशेष-पूजाङ्गे प्रदर्शनीये अङ्गुलीसन्निवेशविशेषे तल्लक्षणन्तु
“मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके। अनामि॰कोर्ध्वसंश्लिष्टे दीर्घमध्यमयोरधः। अङ्गुष्ठाग्रद्वयं न्यस्ययोनिमुद्रेयमीरिता” तन्त्रसा॰।

२ मूलबन्धरूपे योने-र्बन्धभेदे तल्लक्षणमुक्तं पदार्थादर्शे
“पार्ष्णिभागान् सु-संपीड्य योनिमार्गं तथा गुदम्। अपानमूर्ध्वमाकर्षेत्मूलबन्धो निगद्यते। गुदमेढ्रान्तरं योनिस्तामाकुञ्च्यप्रबन्धयेत्। युवा भवति वृद्धोऽपि सततं मूलबन्धनात्”। (योनिस्थानमुद्रणात् योनिमुद्रात्वमस्याः)
“सेयं मयोक्ताखलु योनिमुद्रा बन्धश्च देवैरपि दुर्लभोऽस्य। अनेनबन्धेन न साध्यते यन्नास्त्येव तत्साधकपुङ्गवस्य”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

योनिमुद्रा/ योनि--मुद्रा f. N. of a partic. position of the fingers L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--the symbol pertaining to देवी; description of. Br. IV. ४२. १८; ४४. ११.

"https://sa.wiktionary.org/w/index.php?title=योनिमुद्रा&oldid=435913" इत्यस्माद् प्रतिप्राप्तम्