यौतुक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यौतुकम्, क्ली, यौतकम् । विवाहकाले दम्पत्योर्लब्धं धनम् । उपचारात् अन्नप्राशनादिसंस्कारकाल- लब्धमपि । युतकं योनिसम्बन्धः तत्र भवमिति ष्णे यौतकम् । युतयोर्बधूवरयोरिदमिति वा कणि यौतकम् ॥ यौतकमुकारमध्यमपि । यौतकं यौतुकञ्च तत् । इति वाचस्पतिः ॥ यौत- कादि तु यद्देयं स दायो हरणञ्च तदित्यत्रामर- टीकायां भरतः ॥ * ॥ स्त्रिया यौतकधनस्याधि- कारक्रमो यथा, -- “यत्त दुहितृमात्राधिकारार्थं गोतमवचनम् । ‘स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानाञ्च ।’ यच्च नारदस्य । ‘मातुर्द्दुहितरोऽभावे दुहितॄणां तदन्वयः ॥’ यच्च कात्यायनस्यापि । ‘दुहितॄणामभावे तु रिक्थं पुत्त्रेषु तद्भवेत् ॥’ यच्च याज्ञवल्क्यस्य । ‘मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्वयः ॥’ तानि पूर्ब्बोक्तदेवलवचनविरोधेन यौतकधन- मात्रविषयाणि । अतएव मनुः । ९ । १३१ ॥ ‘मातुश्च यौतकंयत् स्यात् कुमारीभाग एव सः ॥’ यौतकं परिणयनलब्धम् । यु मिश्रण इति धातो- र्युत इति पदम् । मिश्रता च स्त्रीपुंसयोरेकशरी- रता तच्च विवाहाद्भवति । अस्थिभिरस्थीनि मांसैर्म्मांसानि त्वचा त्वचमिति श्रुतेः । अतो विवाहकाललब्धं यौतकम् । ततश्च परिणयन- लब्धं स्त्रीधनं दुहितुरेव न पुत्त्राणाम् । तत्रैव क्रमार्थं गोतमवचनम् । स्त्रीधनं दुहितॄणाम- प्रत्तानामप्रतिष्ठितानाञ्च । प्रथममप्रत्तानां तद- भावे प्रत्तानां तदभावे समूढानाम् । स्त्रीधनं दुहितॄणामितिसामान्यतः प्राप्तत्वात् । अप्रत्ता- नामित्यादेस्तु क्रमार्थत्वात् । तथा, याज्ञ- बल्क्यः । ‘अप्रजःस्त्रीधनं भर्त्तुर्ब्राह्म्यादिषु चतुष्वपि । दुहितॄणां प्रसूता चेच्छेषेषु पितृगामि तत् ॥’ तत्र ब्राह्म्यादिषु विवाहेषु यल्लब्धमध्यग्निधनं स्त्रिया तत् तस्यां मृतायां प्रथमं दुहितॄणामेव तत्रापि प्रथमं कन्यायास्तदभावे प्रत्तायास्तद- भावे परिणीतायाः सर्व्वदुहित्रभावे च पुत्त्र- स्याधिकारः अप्रजःस्त्रीधने भर्त्तुरधिकारात् । बृहस्पतिना अप्रत्तापदेन अप्रत्ताद्यभावे समू- ढाया अप्यधिकारः सूचितः । ‘ब्राह्म्यदैवार्षगान्धर्व्वप्राजापत्येषु यद्धनम् । अप्रजायामतीतायां भर्त्तुरेव तदिष्यते ॥ यत्त्वस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु । अतीतायामप्रजायां मातापित्रोस्तदिष्यते ॥’ अस्याः स्याद्दत्तमिति पराचीनं पूर्ब्बत्रानुषज्यते । तेन विवाहेषु यद्धनं दत्तमिति सम्बन्धात् वैवाहिकधनमात्रप्रतीतेर्न यावद्धनविषयत्वम् । तथा यमः । ‘आसुरादिषु यद्द्रव्यं विवाहेषु प्रदीयते ॥’ विवाहक्रियायां पूर्ब्बापरीभूतायां यद्द्रव्यं प्रदी- यते इति यौतकधनमात्रगोचरत्वमेव प्रतीयते ।” इति दायभागः ॥ * ॥ “ऊढाया यौतकधने प्रथमं कुमारी तदभावे वाग्दत्ता अधिकारिणी । एतयोरभावे ऊढयोः पुत्त्रवतीसम्भावितपुत्त्रयो- र्युगपदधिकारः । एकाभावे चापरायाः । एतयो- रभावे बन्ध्याविधवयोस्तुल्याधिकारः । एकाभावे चापरायाः । ततः पुत्त्रदौहित्रपौत्त्रप्रपौत्त्रस- पत्नीपुत्त्रपौत्त्रप्रपौत्त्राणां क्रमेणाधिकारः । ग्रन्थ- कृन्मते सपत्नीपुत्त्रानन्तरं दौहित्रस्याधिकार इति विशेषः । ततो ब्राह्म्यादिविवाहपञ्चक- समयलब्धयौतकधने भर्त्ता भ्राता माता पिता चेति क्रमः । आसुरादिविवाहत्रयसमयलब्ध- यौतकधने माता पिता भ्राता भर्त्ता चेति क्रमः । ततो देवरः ततो देवरपुत्त्रभर्त्तृश्वशुरपुत्त्रौ भगिनीपुत्त्रः ततो भर्त्तृभागिनेयः ततो भ्रातृपुत्त्रः ततो जामाता ततः श्वशुरः ततो भ्रातृश्वशुरः तत आनन्तर्य्यक्रमेण सपिण्डाः ततः सकुल्याः ततः समानोदकाः ।” इति तट्टीकायां श्रीकृष्ण- तर्कालङ्कारः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यौतुक¦ न॰ योतुर्योगकालस्तत्र लब्धं कण्। विवाहकालेलब्धे धने यौतकशब्दे दृश्यम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यौतुक n. = यौतकMn. ix , 131.
