सामग्री पर जाएँ

यौधेयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यौधेयः, पुं, (योधमर्हतीति । योध + ढञ् । यद्बा, “पार्श्वादियौधेयादिभ्यामणञौ ।” ५ । ३ । ११७ । इति स्वार्थे अञ् ।) योद्धा । इति सिद्धान्तकौमुकी ॥ (युधिष्ठिरपुत्त्रः । स च शैव्य- राजदौत्रित्रः । यथा, महाभारते । १ । ९५ । ७६ । “युधिष्ठिरस्तु गोवासनस्य शैव्यस्य देविकां नाम कन्यां स्वयम्बरां लेभे । तस्यां पुत्त्रं जनयामास यौधेयं नाम ॥” नृगराजपुत्त्राः यौधेया इति ख्याताः । यथा, हरिवंशे । ३१ । २५ । “दृषद्बत्यास्तु संजज्ञे शिविरौशीनरो नृपः । शिवेस्तु शिवयस्तात ! यौधेयास्तु नृगस्य ह ॥”)

"https://sa.wiktionary.org/w/index.php?title=यौधेयः&oldid=160259" इत्यस्माद् प्रतिप्राप्तम्