यौवनाश्वः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यौवनाश्वः, पुं, (युवनाश्वस्यापत्यमिति । युवनाश्व + अण् ।) मान्धातृराजः । इति त्रिकाण्डशेषः ॥ अपि च । “यौवनाश्वोऽथ मान्धाता चक्रवर्त्त्यवनीप्रभुः । सप्तद्वीपवतीमेकः शशासाच्युततेजसा ॥ ईजे च यज्ञं क्रतुभिरात्मविद्भूरिदक्षिणैः ॥ सर्व्वदेवमयं देवं सर्व्वात्मकमतीन्द्रियम् ॥ द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विजः । धर्म्मो देशश्च कालश्च सर्व्वमेतद्यदात्मकम् ॥ यावत् सूर्य्य उदेति स्म यावच्च प्रतितिष्ठति । तत् सर्व्वं बौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ शशविन्दोर्दुहितरि बिन्दुमत्यामधान्नृपः । पुरुकुत्समम्बरीषं मुचुकुन्दञ्च योगिनम् ॥ तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥” इति श्रीभागवते ९ स्कन्धे ६ अध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यौवनाश्वः [yauvanāśvḥ], N. of Māndhātṛi, son of Yuvanāśva.
